कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बहुप्रद

bahupradaवि · adj.

In 7 kośas: 6 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.385 · p. 19
दातोदारः स्थूललक्षो दानशौण्डो बहुप्रदे ॥ ३८५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.8
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.19 · p. 3
दानशौण्डः स्थूललक्ष्यः स्थूललक्षो बहुप्रदः ।दक्षिणे सरलोदारौ भवेदृज्वाशयोऽपि सः ॥ १९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.636 · p. 108
वदान्ये स्थूललक्षः स्याद्दानशौण्डो बहुप्रदः ।सांशैकः संशयापन्नोऽनान्तर्वाणिस्तु शास्त्रवित् ॥ ६३६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.572 · p. 73
अथोदारश्च दाता वै दानशौण्डो बहुप्रदः ।तथैव स्थूललक्षोऽपि कथ्यते कोविदैः किल ॥ ५७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.7 · p. 159
दक्षिणार्हः दक्षिणीयो दक्षिण्योऽपि निगद्यते ।वदान्यश्च स्थूललक्षः स्थूललक्ष्यो बहुप्रदः ॥दानवीरो दानशौण्डो दानपूर्णोऽपि कुत्रचित् ।आयुष्मानपि दीर्घायुर्भवेज्जैवातृकोऽपि च ॥
अनुष्टुप्
genderविadj.

बहुप्रद as a meaning in nānārtha verses