अन्तर्वाणि
antarvāṇiवि · adj.In 11 kośas: 10 synonym verses, 1 as a nānārtha head word.
हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते ।व्युत्पन्नप्रहतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ ॥
अनुष्टुप्
genderपुंmasc.
जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥
अनुष्टुप्
genderविadj.
निवृत्तेन्द्रियलौल्यस्तु श्रान्तः शान्तश्च कथ्यते ।तपःक्लेशसहो दान्तो ह्यन्तर्वाणिश्च शास्त्रवित् ॥ ३९९ ॥
अनुष्टुप्
genderविadj.
मनस्वी बहुविघ्नेपि कार्ये सुस्थिरमानसः ।जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ १२ ॥
अनुष्टुप्
genderविadj.
भावे विशारदत्वं स्याद्वैशारद्यं नपुंसके ।स्याद्विशारदिमा पुंसि स्याद्विशारदता स्त्रियाम् ॥त्रिषु पण्डितमानी स्यात्पण्डितंमन्य इत्यपि ।अन्तर्वाणिः शास्त्रवित्स न्यायवेत्ता तु तार्क्किकः ॥आन्वीक्षिकाऽक्षपादौ च भवेन्नैयायिकोऽपि सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
क्षुण्णे प्रहत इत्येवमन्तर्वाणिस्तु वेत्तरि ।वाग्मिवाक्पतिवागीशा वावदूकः प्रवाक्तु सः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वदान्ये स्थूललक्षः स्याद्दानशौण्डो बहुप्रदः ।सांशैकः संशयापन्नोऽनान्तर्वाणिस्तु शास्त्रवित् ॥ ६३६ ॥
अनुष्टुप्
genderविadj.
चिद्रूपो हृदयालुश्च सहृदयोऽथ संस्कृतः ।व्युत्पन्नः प्रहतः क्षुण्णः अन्तर्वाणिस्तु शास्त्रवित् ॥ ५१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderविadj.
अन्तर्वाणिः शास्त्रदर्शि-शास्त्रविच्छास्त्रचारिणः ।परीक्षकः कारणिकः परीक्षाकार इत्यपि ॥
अनुष्टुप्
genderविadj.
अन्तर्वाणिः शास्त्रवित्स्यादविनीतः समुद्धतः ।प्रत्युत्पन्नमतिस्तु स्यात्तत्कालोत्पन्नधीर्नरः ॥ ३१ ॥
अनुष्टुप्
genderविadj.
अनिमेषोऽप्यनिमिषोऽप्युभावमरमत्स्ययोः ।अन्तर्वाणिः शास्त्रविदि पुरोधसि बहुश्रुते ॥ २१९९ ॥
अनुष्टुप्