कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मधुक्रम

madhukramaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.906 · p. 36
शुण्डा पानमदस्थानं मधुवारा मधुक्रमाः ॥ ९०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.40
शुण्डा पानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.66 · p. 300
सरकश्चषकश्चास्त्री गल्वर्कोऽप्यनुतर्षणम् ।शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.620 · p. 106
शुण्डापानं मदस्थानं शुण्डाली च सुरागृहे ।मध्वारको मधुकरो मधुवारो मधुक्रमः ॥ ६२० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1527 · p. 242
मधुक्रमाः मधुवराः मद्यपानस्य पद्धतिः ।सहपानं सपीतिश्च सहपानक्रियाविधौ ॥ १५२७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.69 · p. 157
अवदंशः सुरापानं शुण्डापानं मदस्थलम् ।पुनः पुनः सुरापाने मधुवारा मधुक्रमाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1558 · p. 188
शुण्डापानं मदस्थानमापानं पानगोष्ठिका ।मदनृत्तं तु मत्तल्ली मधुवाराः मधुक्रमाः ॥ १५५८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.52 · p. 140
कारोत्तरः सुरामण्ड आसवोऽप्यथ भक्षणम् ।उपदंशोऽपदंशश्च मधुवारा मधुक्रमाः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.