कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मध्यंदिन

madhyaṃdinaक्ली · neut.

In 4 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.139 · p. 9
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.273 · p. 279
मध्यंदिनस्त्रिसन्धिस्तु संधीवेली सदाफलः ।स सन्धिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.17 · p. 407
मध्यं दिनमथोत्सूरोऽपराह्णः पुंनपुंसकम् ।दिवसार्थावसानस्य पर्यायं सायमव्ययम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.31 · p. 179
प्राह्णे पूर्वेद्युरेतौ च गोस-गोसर्गकौ समौ ।मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.234 · p. 32
समानौ प्राह्णपूर्वाह्णौ समौ संगतसंगवौ ।मध्यंदिनं तु मध्याह्नोऽथांशोऽह्नः कुतपोऽष्टमः ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.