कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मध्य

madhyaक्ली · neut.

In 18 kośas: 40 synonym verses, 7 as a nānārtha head word, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.292 · p. 16
द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २९२ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.607 · p. 26
मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ।श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ ६०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.874 · p. 35
यथोत्तरं दशगुणं भवेदेको दशामुतः ।शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥ ८७३ ॥अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् ।शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्बु (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.42 · p. 53
षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा ।धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ १४०१ ॥ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोद्भवाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ऋ (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1460 · p. 55
अभ्यन्तरमन्तरालं विचाले मध्यमन्तरे ॥ १४६० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.9
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.79
मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.517 · p. 59
रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते ।अवलग्नं विलग्नं च मध्यमं मध्यमुच्यते ॥ ५१७ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.246 · p. 88
कुन्दो मध्यः शुक्लपुष्पः करवीरे हयोद्धतः ।परिहासः शतप्रासः सितकुम्भोऽश्वमारकः ॥ २४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्वः कल्वी वर्ष्मन् वर्ष्मं नाभिर्नाभी च दृश्यते ।चुचूकं चुचुकं मध्यं मध्यमं च भुजो भुजा ॥ १७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.95 · p. 30
आपञ्चाशदब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः ।आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.168 · p. 39
कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् ।विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.498 · p. 188
अब्जं खर्वं निखर्वं च महाब्जं शङ्खवारिधी ।अन्त्यं मध्यं परार्द्धं च परार्द्धद्विगुणं परम् ॥ ४९८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.16 · p. 407
व्युष्टं विभातं प्रत्यूषः स्त्रियां प्रत्युषमित्यपि ।गोसर्गश्चाथ मध्याह्नो दिनार्थान्मध्यमित्यपि ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.4 · p. 417
धैवतोऽपि ललाटोऽत्थो निषादः सर्वसंधिजः ।स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिप्रदाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.20 · p. 27
आसन्नगमना भानोः सा भवेच्च प्रधूमिता ।रविणाधिष्ठिता दग्धा दिश्यं तु त्रिषु दिग्भवे ॥दिशोऽपत्ये[19a] तु दैशेयोऽन्यदाशान्या भवेत्ककुप् ।क्लीबाव्ययं त्वपदिशं विदिक्प्रदिगिमे समे ॥अन्तरालं विचालं च स्त्रियामभ्यन्तरान्तरे ।त्रिषु मध्ये चक्रवालं मण्डलं च त्रिलिङ्गकम् ॥ २० ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 292
अन्त्यं मध्यं परार्द्धं स्यान्न संख्यास्ति ततः परम् ।असंख्यद्वीपबाह्यादि पुद्गलात्माद्यनन्तकम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.931 · p. 122
तत्रैवेत्यब्रुवन् हर्षे गर्वे गन्धे च रेतसि ।मदी तु मत्तावस्थायां स्त्री मध्यं तु नपुंसकम् ॥ ९३१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.294 · p. 88
ऋषभो मध्यमः पञ्चमो निषादोऽथ धैवतः ।तद्भेदा मन्द्रमध्याख्यताराः स्थानादिभेदतः ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.347 · p. 95
अन्तरं चान्तरालं च मध्यं माध्यन्दिनं समम् ।सधर्मा सदृशश्चैव समानः संनिभः सदृक् ॥ ३४७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.266 · p. 134
नाभिर्नाभेरधोभागे बस्तिर्मूत्रपुटं पुनः ।मूत्राशयोऽवलग्नं तु विलग्नं मध्यमध्यमौ ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.90 · p. 7
चित्तं चेतो मनः स्वान्तं तालुः काकुदतालुके ।मध्योऽवलग्नं क्षीणाङ्गं नाभिर्नालपयोरुहम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.40 · p. 23
मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च ।काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.106 · p. 30
द्रुतं विलम्बितं मध्यमिति गीते त्रयो लयाः ।ग्रामा घोरमन्द्रतारास्तालाश्च चपुटादयः ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.93 · p. 43
विचालं त्वन्तरं मध्यमन्तरालं च मध्यमम् ।अरालं कुटिलं वक्रं सरलं प्रगुणो ऋजु ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.424 · p. 54
मध्यमगतिमन्नृत्यादिकं मध्यं घनं तु वै ।पुनरनुगतं चेति कोविदैः कथ्यते किल ॥ ४२४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.978 · p. 149
अवलग्नं विलग्नं च मध्यश्च मध्यमः स्मृतः ॥ ९७८ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1461 · p. 232
अन्त्यं दशवार्द्धिमानं मध्यं दशान्त्यमानकम् ।दशमध्यप्रमाणं च परार्द्धं सङ्ख्यकं किल ॥ १४६१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2546 · p. 412
उरोजातः स्वरो मन्द्रो मध्यः कण्ठज उच्यते ।तारो मस्तकजः प्रोक्तः स्वरज्ञैः पण्डितर्जनैः ॥ २५४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2655 · p. 429
अन्तरं चैव मध्यं चाऽवकाशार्थे हि कथ्यते ॥ २६५५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.435 · p. 31
विलम्बितं द्रुतं मध्यं लय इत्यभिधीयते ।विलम्बितं भवेत्तत्त्वं द्रुतं मोघमिति स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.287 · p. 101
कक्षौ द्वौ बाहुमूले स्यादस्त्री पार्श्वं तयोरधः ।अस्त्री मध्यो मध्यमञ्च विलग्नमवलग्नवत् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.167 · p. 148
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.31 · p. 179
प्राह्णे पूर्वेद्युरेतौ च गोस-गोसर्गकौ समौ ।मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.180 · p. 203
नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि ।विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे ॥ १८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable); pāda 3, syllable 5 ल (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1069 · p. 133
मध्यमं चावलग्नं स्याद् विलग्नं मध्यमस्त्रियाम् ।स्तनौ कुचौ तयोरग्रं चूचुकं भुजमूर्ध्नि तु ॥ १०६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1262 · p. 154
खर्वो निखर्वः शङ्खश्च पद्मं ना तु समुद्रकः ।मध्यमन्तं परार्धं च पदानि गणनाविधौ ॥ १२६२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1553 · p. 187
तालो विलम्बितं कालो द्रुतं मध्यं क्रिया लयः ।ओघः साम्यं धनं तत्त्वं क्रियाथ भ्रमरी भ्रमः ॥ १५५३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.123 · p. 146
विलंबितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।तालः कालक्रियामानं क्रियांगुलिकरोद्भवा ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.29 · p. 188
समुद्रो मध्यमन्तं च परार्धं च यथाक्रमम् ।परं परार्धाद्द्विगुणमथ स्त्री कोटिरर्बुदे ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.161
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ १६१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.13 · p. 152
भव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे ।मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.23 · p. 289
संख्या विचारे गदिता तथैक-त्वादौ रणे तु प्रथिता द्वयोना ।लग्नेऽधमे च त्रिषु मध्यमन्त्येन्याय्येऽवकाशेऽपि च लग्नकेऽस्त्री ॥ २३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.932 · p. 122
वस्तुद्वयस्यान्तराले सङ्ख्याभेदेऽपि कुत्रचित् ।समुद्रसंज्ञसङ्ख्याया यः स्याद्दशगुणोत्तरः ॥ ९३२ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.933 · p. 122
छन्दसामुक्तपूर्वाणां तृतीये छन्दसि त्रि तु ।न्याय्ये वलग्नसंज्ञे तु शरीराङ्गे नृशण्डयोः ॥ ९३३ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.934 · p. 122
हिमोत्सर्गाय सवितू रश्मयः स्युः शतत्रयम् ।तत्रैकत्र शते ह्वादिन्याख्येषु रविरश्मिषु ॥ ९३४ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.63 · p. 235
अक्षरावयवे माने मात्रं कार्त्स्न्येऽवधारणे ।मध्यं युक्तेंऽतराले च महद्राज्यविशालयोः ॥ ६३ ॥
अनुष्टुप्

मध्य as a meaning in nānārtha verses