उषस्
uṣasस्त्री · fem.In 16 kośas: 19 synonym verses, 4 as a nānārtha head word, 5 as a meaning of another word.
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ।व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ॥ २ ॥प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः ।
अनुष्टुप्
genderस्त्रीfem.
कल्यमुषः प्रत्यूषं प्रगे प्रभातं भवेद्विभातं च ।दिवसमुखं गोसर्गः प्रातर्व्युष्टं च निर्दिष्टम् ॥ १११ ॥
आर्या
genderस्त्रीfem.
स्यान्नीहारो निहारश्चावश्याऽवश्याय उच्यते ।उषावन्ताप्युषोऽदन्त उषः सान्तं च दृश्यते ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि ।गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
उषः-प्रत्युषसी व्युष्टं प्रभातं च विभातवत् ।प्रगं क्लीबेऽव्ययं प्रातः प्रगे प्राभातिकं त्रिषु ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
व्युष्टं कल्योषसी गोसः प्रत्युषोऽथ निशा क्षपा ।निशीथिनी तमी रात्रिस्तमा तुङ्गी विभावरी ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
कादम्बरमसूरौ तु त्वक्षीरं जम्बुना सह ।रोदः सदः सरो दामोषस्तयट्प्रमुखा इति ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कल्यं प्रातरुषः क्लीबे सायं संध्या पितृप्रसूः ।वि(व्यु?)ष्टं विनोदं प्रत्यूषं विभातं भातमेव च ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
प्रातः प्रभातं प्रत्यूषो उषः कल्यमहर्मुखम् ।रजनी यामिनी रात्रिस्त्रियामा शर्वरी निशा ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
उषो व्यृष्टं प्रगे प्राह्णे पूर्वेद्युश्च निशात्ययः ।गोसः प्रातश्च गोसर्गः काल्यं कल्यं च प्रत्युषः ॥ १२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderस्त्रीfem.
प्रत्यूष उषसी ऊषः प्रत्युषं कल्यमूषकम् ।अहर्मुखमुषापयूषा निशान्तञ्च विभातवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
पुनरर्थेऽङ्गरात्र्यन्ते स्यादुषांस्तमदर्शने ।सायं साये प्रशंसायां सुष्ठु स्यात् दुष्ठु निन्दिते ॥
अनुष्टुप्
genderअindecl.doubtful
दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् ।उषः प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
तमी तमा तामसी च वसतिर्वासतेय्यपि ।शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि ।उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः ॥ १०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
genderस्त्रीfem.
ते तु त्रिंशदहोरात्रः सुप्रातः शोभनोषसि ।प्रभातः प्रत्युषः काल्यविभातोषांस्यहर्मुखम् ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
विहानोऽस्त्री प्रविसरो गोसर्गप्रत्युषावुषः ।व्युष्टं विभातं प्रत्यूषं सांयात्रिकमहर्मुखम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
स[90a]रस्तडागे न नरे जलेऽन्त्ये-ऽथोषः प्रभाते श्रुतिरन्ध्रके ज्ञैः ।नपुंसि संध्यार्थकमङ्गना तुस्याद्देवतायामथ खे नभः स्यात् ॥ ७ ॥
उपजातिःmetre not read in every line
doubtful
उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः ।सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥
अनुष्टुप्
doubtful
उस्रो मयूख उस्रा गौरुमा शैलात्मजातसी ।उषः काल्यमुषा रात्रिरूतिः सूत्यभिरक्षयोः ॥ १८७६ ॥
अनुष्टुप्
meaningsकाल्य
उषस् as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप वाजिन्द्वे त्वश्वपक्षिणोर्वाजवति तु त्रिरथोषसि । वाजीति स्त्र्यथ वाग्मी स्याद् वाचोयुक्तिपटौ त्रिषु ॥ १२४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1247
- नानार्थार्णवसंक्षेप अर्जुनस्त्रियां तु सुरभौ रात्रावुषस्यप्यापगान्तरे । बाहुदाख्येऽर्जुनी च स्यात् त्रि तु स्यादग्र्यशुक्लयोः ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 4.14
- नानार्थार्णवसंक्षेप अरुणशशिजे चाप्युषसि च काण्डर्षिष्वपि केषुचित् । अव्यक्तरागवर्णे च सन्ध्यारागे तु केचन ॥ २७ ॥ Nānārthārṇavasaṃkṣepa 4.27
- नानार्थार्णवसंक्षेप अरुषअरुषस्तु पुमान् सूर्येऽरोषे वर्णेऽपरे पुनः । रूपवत्याहुरश्वे तु द्वयोरुषसि तु स्त्रियाम् ॥ १०१ ॥ Nānārthārṇavasaṃkṣepa 4.101
- नानार्थार्णवसंक्षेप द्योतनाउषसि द्योतनं तु क्ली धने द्योततिकर्मणि । अक्ष्णि प्रकाशनायां तु स्त्रीनपोर्द्योतनाथ नप् ॥ ९६५ ॥ Nānārthārṇavasaṃkṣepa 4.965