कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मोच

mocaक्ली · neut.

In 7 kośas: 2 synonym verses, 6 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 145
कठोरमल्लिका चाथ पिस्तं स्याच्च मकूलकम् ।कदली कन्दली काली रसा हस्तिबुसा तथा ॥चर्मण्वती भानुफला रम्भा मोचा च कृष्णला ।वृन्तपुष्पा च निःसारा तृणसारा महाच्छदा ॥काष्टाला वारणबि[28a]सा ग्रन्थिनी गजदन्तिका ।सुकुमारा मृत्युफला कथिता दत्तविग्रहा ॥मोचं फलेऽस्याः पुष्पं तु शिलीध्रं कन्दलं त्रिषु ।तालस्तलो ना श्रीबीजो ध्वजद्रुः स महाफलः ॥ २९ ॥
metre not recognised
genderक्लीneut.
क्ष्वेडा तु सिंहनादे स्याद्वने तु गडुरित्यपि ।शिग्रुर्मोच इति प्रोक्तो मोचा स्याच्छाल्मली द्रुमे ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास चार्धश्लोकः Dharaṇikośa 5.2.3 · p. 29
चञ्चुस्त्रोट्यां तथैवाण्डे गोनाडी चैव कीर्तितः ।मोचः शोभाञ्जने मोचा शाल्म[18]ली कदली तथा ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चान्ताः Koṣakalpataru 6.5.2 · p. 170
चन्द्रे चौरे चोऽथ वागीशपुत्रेबन्धे शुष्कस्यारुषः स्यात्कचो ना ।स्त्रीभ्यां काचः शिक्यमृद्दृष्टिरुक्षुमोचः शिग्रौ शाल्मलीरम्भयोः स्त्री ॥ २ ॥
शालिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1036 · p. 131
कदलीमात्र इत्येके सुगन्ध्यल्पफला तु या ।तस्यां कदल्यामित्यन्ये वृक्षस्य तु रसे पुमान् ॥ १०३६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र चद्विः Śivakoṣa 5.1.100 · p. 10
चोचो माणवके मोचः पिच्छायां च घनच्छदे ।मोचा तु शल्लकीरम्भानीलपुष्पीचिरायुषि ॥ १०० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश चान्ताः Śabdaratnāvalī 7.6.8 · p. 196
पिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः ।मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः ।रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.64 · p. 235
मोचा कदल्यां स्त्री वृक्षरसे ना पाटले नषण् ।मौलिः संयतकेशेषु चूडायां मकुटेऽप्यषण् ॥ ६४ ॥
अनुष्टुप्