कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पाटल

pāṭalaवि · adj.

In 21 kośas: 35 synonym verses, 10 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1168 · p. 45
आशुः स्यात्पाटलो व्रीहिर्गर्भपाकी तु षष्टिकः ॥ ११६८ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1395 · p. 53
कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः ।हारिद्रः पीतलो गौरः पीतनीलः पुनर्हरित् ॥ १३९४ ॥पालाशो हरितस्तालकाभो रक्तस्तु रोहितः ।माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ॥ १३९५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.15
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.15
आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.733 · p. 84
अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
metre not recognised
genderविadj.
पाटलः पाटलिर्धान्ये सतीनः स्यात् सतीनकः ।सर्षपः सरिषपो यावो यावको यवको भवेत् ॥ २२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.47 · p. 253
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबे च पाटला ।आम्रश्चूतो महाकालो माकन्दः षट्पदातिथिः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.238 · p. 275
तद्वनेऽप्यथ पुंनागः पाटलो रक्तपुष्पकः ।पुरुषाह्वोऽपि तुङ्गोऽथ तिलकाह्वस्तु रेचकः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.101 · p. 355
पाटलः पिच्छकस्त्वेकस्तथान्यो दन्तपाटलः ।मध्यकायाविमौ मत्स्यौ नदीजौ चर्मसम्भवौ ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.166 · p. 435
श्यावस्तु कपिशश्चाथ श्वेतरक्तस्तु पाटलः ।धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.128 · p. 475
यवाक्यं तरलं पुष्पे पाटलं तरलं च ये ।वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.32 · p. 56
लोहितो रोहितो रक्तो माञ्जिष्ठोऽसौ तु पाटलः ।श्वेतसंवलितो रक्तः शोणः कोकनदोपमः ॥ ३२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 154
क्षारश्रेष्ठः क्षारवृक्षः पाटलः क्षुद्रपाटलः ।खरशाखी स्त्रियां घण्टा द्विधासौ शुक्लकृष्णतः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 274
काष्ठे पञ्चाङ्गुलं क्लीबे धान्यं सीत्यं च सस्यकम् ।व्रीहिः स्तम्बकरी पुंसि व्रीहिस्त्वाशुश्च पाटलः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.10 · p. 117
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.175 · p. 96
पद्मके मालकः पीतरक्तश्चारुश्च सुप्रभः ।सुरभिः शीतवीर्यश्च पाटलः पीतवर्णकः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.386 · p. 208
अथ धान्ये सस्यं सीत्यं व्रीहिस्तम्बकरी अपि ।आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ ३८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 149 · p. 72
लोहितं रक्तमाताम्रं पाटलं विशदारुणम् ।पीतं गौरं हरिद्राभं पालाशं हरितं हरित् ॥ १४९ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 181 · p. 86
अञ्जनं कज्जलं नागं गजपाटलमारुणम् ।सालं परिधि वृक्षं च कुल्यां स्त्रीं सारणीं विदुः ॥ १८१ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.87 · p. 62
षष्टिको गर्भपाकी च पाटलस्त्वाशुरुच्यते ।कलामकस्तु कलमो रक्तशालिस्तु लोहिते ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.290 · p. 88
अरुणो रोहितो रक्तशोणौ रक्तसिते अथ ।पाटलोऽप्यरुणो बालसन्ध्याभः पीतरक्तके ॥ २९० ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.6.167 · p. 231
स्त्रीनपुंसकयोः शुक्तौ नखं पुष्पे च पाटलम् ।ओषधे मधुकं विश्वं यवाग्वां तरलापि च ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.154 · p. 21
पालाशो हरितः पीते श्वेतरक्तस्तु पाटलः ।श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहितौ(ते?) ॥ १५४ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.325 · p. 23
भूकम्पः पृथिवीबालो दिग्दाहो रिदुल्मुकः? ।सितो वलक्षो धवलः पाटलः श्वेतरक्तकः ॥ ३२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.80 · p. 42
स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् ।रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्ल (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2107 · p. 348
पाटलो व्रीहिराशुः स्याद् गर्भपाकी च षष्टिकः ।शालयः कलमाद्याः स्युः कलमश्च कलामकः ॥ २१०७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2534 · p. 411
रोहितो लोहितो रक्तो माञ्जिष्ठः शोण इत्यपि ।पाटलः श्वेतरक्तश्च श्वेतरक्तस्य नाम वै ॥ २५३४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.342 · p. 24
अरुणोऽव्यक्तरागः स्यात् पाटलः श्वेतरक्तकः ।कृष्णपीतस्तु यो वर्णः स श्यावः कपिशोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.38 · p. 59
पाटलं पाटला चेति पाटला कुसुमादिके ।बोधिः बोधिद्रुमोऽश्वत्थः पिप्वलः केशवालयः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.29 · p. 139
पुंसि मेधिः खलेकाष्ठं यत् न्यस्तं पशुबन्धने ।आशुर्ब्रीहिः पाटलः स्यात् पाटलञ्चापि कुत्रचित् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.250 · p. 238
शेवालं शैवलं शैवालं शेपालं च शीवलम् ।शेवलं पाटलसाला वाशुराशु च व्रीहिवत् ॥ २५० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.456 · p. 60
पुष्पे स्वलिङ्गा जात्याद्याः पुष्पे क्लीबे च पाटला ।विदार्याद्यास्तु मूलेऽपि जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.888 · p. 111
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1417 · p. 171
शितशूको दीर्घशुको यवो यज्ञिय इत्यपि ।यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.17 · p. 197
शोणोऽरुणश्च संध्याभः श्वेतरक्तस्तु पाटलः ।मरालोऽल्पः पीतरक्तः पीतरक्तस्तु पिंजरः ॥ १७ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास लश्लोकः Dharaṇikośa 27.3.28 · p. 203
पाटलं पाटला चेति पुष्पे वृक्षे च पाटला ।पाटलः श्वेतरक्तः स्यादाशुव्रीहौ च पाटलः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.29 · p. 348
पाचलो धनहुताशवायुषुग्राहयादसि तु माचलो मतः ।बन्दितस्कररोगयोरथोश्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥
रथोद्धताmetre not read in every linenearly रथोद्धता
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.30 · p. 348
आशुव्रीहौ ना द्वयोः पाटलिः स्या-त्काचस्थाल्यां पाटलापि स्त्रियां स्यात् ।पुष्पे त्वस्या पाटलं पाटला स्या-दव्यक्तोक्तौ लोहलो भेद्यलिङ्गः ॥ ३० ॥
शालिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1142 · p. 147
पाटलस्तु पुमानाशुसंज्ञव्रीह्यन्तरे भवेत् ।श्वेतलोहितसम्मिश्रवर्णभेदेऽथ तद्वति ॥ ११४२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1143 · p. 147
त्रि स्त्री तु तद्वर्णाख्यायां पाटला पाटलिद्रुमे ।पुष्पे तु तस्य नप् स्त्री स्यात् पाटलं पाटलेति च ॥ ११४३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.464 · p. 42
पाटला पाटलितरौ पुष्पेऽस्याः पाटलं त्रिषु ।पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ४६४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.75 · p. 281
पाचलं पाचने वह्नौ राधनद्रव्यवातयोः ।पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे ।पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2135 · p. 258
धने हेम्नि ब्रह्मसूत्रे मन्त्रे च प्रयते त्रिषु ।आशुव्रीहौ पाटलो ना पाटली कुसुमे न ना ॥ २१३५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.401 · p. 233
पिङ्गलः यत् कपावग्नावाशुव्रीहिश्च पाटलः ।फलं जातिफले लाभे बाणाग्रे फलकेऽपि च ॥ ४०१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.56 · p. 261
प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ।पाटला गवि पाटल्यामाशुव्रीहिस्तु पाटलः ॥ ५६ ॥
अनुष्टुप्

पाटल as a meaning in nānārtha verses