कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · चान्ताः

इति कान्तादिवर्गः ।

एकचः ।

चन्द्रे चौरे चोऽथ वागीशपुत्रेबन्धे शुष्कस्यारुषः स्यात्कचो ना ।स्त्रीभ्यां काचः शिक्यमृद्दृष्टिरुक्षुमोचः शिग्रौ शाल्मलीरम्भयोः स्त्री ॥ २ ॥
6.5.2 · p. 170
शालिनी
नीचः खर्वे पामरे चान्यवत्स्या-त्तूले कर्षे कुष्ठरोगेऽसुरे च ।किंच प्रोक्तो भैरवास्ये पिचुर्ना-थ भ्रूमध्ये श्मश्रुणि श्लाघने च ॥ ३९ ॥
6.5.39 · p. 171
शालिनी
कूर्चश्छद्मन्यस्त्रि[266b]यां स्यादथाद्रौद्वीपे क्रौञ्चः पक्षिभेदे च पुंसि ।चञ्चः पुंसि स्यान्नडादिप्रकारेचञ्चा तु स्त्री पूरुषे स्यात्तृणस्य ॥
6.5.3 · p. 171
शालिनीmetre not read in every line
उरुबूके चञ्चुर्नापक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् ।नाषाढे शृङ्गारेमन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥
6.5.4 · p. 171
metre not recognised
मधौ( ? )शुद्धे परवत्स्त्री तु रुचिः स्यादभिष्वङ्गे ।शोभामयूखवाञ्छा-स्ववकाशे तु द्वयोर्वीचिः ।स्वल्पतरङ्गे च सुखे-ऽथाभिनये सीवनद्रव्ये ।नारीन्द्रिये च सूचीशचीन्द्रपत्नी शतावर्याम् ।काञ्ची देशविशेषेगुञ्जायां मेखलायां च ।षड्ग्रन्थासारिकयो-र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥
6.5.7 · p. 171
metre not recognised
प्रतिमायां पूजायामर्चाचर्चा स्थासकसुचर्चिकाचिन्ताः ।इच्छाशोभारुचयोरुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥
6.5.8 · p. 171
metre not recognised
चोचेऽथ नीचनिम्न-कार्त्स्नेषु न्यग्विशेष्यनिघ्नः स्यात् ।भारत्यां भाषायांवचने प्रोक्ता स्त्रियां वाक् च ॥ ९ ॥
6.5.9 · p. 172
metre not recognised

त्रिचाः ।

कवचस्तु गर्दभाण्डेसंनाहे चानके न स्त्री ।विकचः क्षपणे केतु-ग्रहे स्फुटे तु भेद्याभः ॥ १० ॥
6.5.10 · p. 172
metre not recognised
क्रकचो ग्रन्थिलवृक्षेकरपत्रे स्यात्तु संकोचम् ।काश्मीरे नरि मीने ।बन्धेऽथो लोहबाणे स्यात् ॥ ११ ॥
6.5.11 · p. 172
metre not recognised
नाराचोऽम्भोद्विरदेस्त्र्येषणिकायामथो सम्यक् ।त्रिषु संहतहृद्यार्थेप्रतारणे तु प्रपञ्चः स्यात् ॥ १२ ॥
6.5.12 · p. 172
metre not recognised
विस्तारसंचयार्थेव्यत्यासे क्वापि संदिष्टः ।मुनिभिदि पुंसि मरीचिःकृपणे परवद्रुचौ द्वंद्वे ॥ १३ ॥
6.5.13 · p. 172
metre not recognised
द्विरदे रक्षोभेदेमारीचो नान्तिमे तु कक्कोले ।परवद्याजकवाचीमारीची देवताभेदे ॥ १३ ॥
6.5.13 · p. 172
metre not recognised
नमुचिः स्मरदैत्ययोः कणीचिःपुनरुक्ता शकटेऽपि काकणन्त्याम् ।लहरीविरहे द्वयोरवीचि-र्नरके क्रीडनवीणयोर्विपञ्ची ॥ १४ ॥
6.5.14 · p. 172
metre not recognised

चतुश्चाः ।

मलिम्लुचः स्यान्मलिनेऽपि चौरे-ऽथो वारिसूचिः शिशु[267a]मार उक्तः ।कङ्के जलौकःसु झषान्तरे चशृङ्गाटके तद्वदुदाहृता स्त्री ।
6.5.14 · p. 173
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 म (wrong syllable)

पञ्चचाः ।

भषके रतनारीचोरतिप्रिये सीत्कृतौ सुदृशाम् ॥
6.5.15 · p. 173
इन्द्रवज्राmetre not read in every line