कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

चान्ताः · चार्धश्लोकः

॥ चार्धश्लोकः ॥

त्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके ।रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥
5.2.1 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
रुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः ।कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥
5.2.2 · p. 29
अनुष्टुप्
चञ्चुस्त्रोट्यां तथैवाण्डे गोनाडी चैव कीर्तितः ।मोचः शोभाञ्जने मोचा शाल्म[18]ली कदली तथा ॥
5.2.3 · p. 29
अनुष्टुप्
चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषः ।काचः शिक्येऽक्षिरोगे च मृत्प्रभेदे च दृश्यते ॥
5.2.4 · p. 29
अनुष्टुप्
चर्चा देवीविशेषः स्याच्चर्चालेपनचिन्तयोः ।कूर्चः शीर्षे च दम्भे च भ्रूमध्ये कूर्चमिष्यते ॥
5.2.5 · p. 29
अनुष्टुप्
विकचः स्फुटितेऽकेशे विकचोऽचरमग्रहः ।क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यो द्रुमस्तथा ॥
5.2.6 · p. 29
अनुष्टुप्
नाराचा लौहबाणा स्यु [र्नाराचो जलहस्तिनि?] ।संकोचं कुङ्कुमं प्रोक्तं संकोचो मीनबन्धयोः ॥
5.2.7 · p. 29
अनुष्टुप्
प्रपञ्चो विस्तरे ख्यातः प्रपञ्चश्च प्रतारणम् ।मारीची देवता काचिन्मारीचो राक्षसान्तरम् ॥
5.2.8 · p. 30
अनुष्टुप्