All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · चान्ताः
इति ङान्ताः ॥
चः स्याच्चौरे हिमकरे निर्वीजे दुर्जनेऽपि च ।
7.6.1 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 तक (syllable split)
अर्चा स्यात् प्रतिमा पूजा जातकशुश्कषणेऽपि च ।कचः बृहस्पतिसुते केशे शुष्कव्रणेऽपि च ॥
7.6.2 · p. 195
अनुष्टुप्metre not read in every line
बन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् ।काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥काञ्चीनगरभेदे च स्त्री कटिमेखलासु च ।कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥
7.6.3 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
क्रोञ्चः पर्वतभेदे स्यात् पक्षिद्वीपभिदोरपि ।चर्चा तु चर्चिकायां स्त्री चिन्ताविचारयोरपि ॥
7.6.4 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
चञ्चुरेरण्डमृगयोः पुंसि त्रोटौ स्त्रियामपि ।त्वक् स्त्रियान्तु वल्कले स्यात् चर्मण्यपि गुडत्वचि ॥
7.6.6 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्तु (wrong syllable)
न्यङ् निम्ननीचयोर्नीचो वामने पामरेऽपि च ।प्राक् पूर्वदिशि देशे पूर्वकाले च वाच्यवत् ॥
7.6.7 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः ।मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः ।रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥
7.6.8 · p. 196
अनुष्टुप्
वाग्वाचा च समानार्थे भारतीवचसोः स्त्रियौ ।वीचिस्तरङ्गावकाशसुखस्वल्पेषु च द्वयोः ॥
7.6.9 · p. 196
अनुष्टुप्
शुचिः ग्रीष्मसिताषाटज्यैष्ठशृङ्गारवह्निषु ।शुद्धमन्त्रिणि शुद्धे वा तथानुपहते त्रिषु ॥
7.6.10 · p. 196
अनुष्टुप्
शची शतावरीन्द्राण्योः सचिः स्त्रीकरणान्तरे ।सूचिरङ्गाभिनयभित् सीवनद्रव्ययोरपि ॥
7.6.11 · p. 196
अनुष्टुप्
कनीचिः सङ्कटे गुञ्जाप्रफुल्ललतयोः स्त्रियाम् ।कवचः पर्पटे गन्धभाण्डसन्नाहयोरपि ॥
7.6.12 · p. 196
अनुष्टुप्
नमुचिर्दैत्यभेदे स्यात् तथा कुसुमसायके ।नाराचो लोहबाणाम्बुहस्तिनोस्तेषनीषु च(?) ॥
7.6.13 · p. 196
अनुष्टुप्
प्रपञ्चोऽपि च विस्तारे सञ्चरे नवतोरणे ।क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यद्रुमे पुमान् ॥
7.6.14 · p. 196
अनुष्टुप्
मरीचिः स्याद्द्वयोर्दीप्तौ मुनिभेदे पुमानपि ।मारीचः कुष्ठिते रक्षोभेदे स्याद्याजकेऽपि च ॥
7.6.15 · p. 196
अनुष्टुप्
स्याद्विपञ्ची तु वीणायां क्रीडायामपि कीर्तिता ।विरिञ्चिः स्याद्विरिञ्चोऽपि शिवे विष्णौ विधातरि ॥
7.6.16 · p. 196
अनुष्टुप्
शङ्कोचिः मीनभेदे स्याद्वल्के क्लीबञ्च कुङ्कुमे ।सम्यग्मनोज्ञे शुद्धे तु सङ्गते चाप्यलिङ्गकम् ॥
7.6.17 · p. 196
अनुष्टुप्
जलसूचिर्भवेत् कङ्कत्रोटिशृङ्गाटयोरपि ।पुंलिङ्गः शिशुमारे तु जलौकायां स्त्रियामिह ॥
7.6.18 · p. 196
अनुष्टुप्