यायावर
yāyāvaraपुं · masc.In 6 kośas: 10 synonym verses.
दधीचिश्च दधीचोऽपि वदान्यश्रेष्ठ इत्युत ।यायावरो जरत्कारुर्देवी च मनसा प्रिया ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
मिश्रैर्मिश्रा विनीतस्तु साधुवाही जवाधिके ।जवनोथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
यायावरश्चक्रवरः सद्यःप्रक्षालितान्नकः ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणीः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
यायावरो जरत्कारुः क्षान्तः पद्मावतीप्रियः ।पद्मा पद्मावती पद्मप्रिया पातालकन्यका ॥
अनुष्टुप्
genderपुंmasc.
एते हयविशेषाः स्युरन्येऽपि देशभेदतः ।अश्वमेधीयतुरगो ययुर्यायावरोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderपुंmasc.
द्रौणायनोऽथ राजर्षिर्जनमेजयसंज्ञकः ।पारीक्षितोऽप्यथ जरत्कारुर्यायावरो मतः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
यायावरोऽश्वमेधीयः पारसीकः परादनः ।आरट्टजश्च चोस्कस्तु सिन्धुवारो हयोत्तमः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
यायावरश्चक्रचरः सद्यःप्रक्षालितान्नकः ।परिवेत्ताग्रजेऽनूढे कृतदारपरिग्रहः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणिः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.