कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुर्वासस्

durvāsasपुं · masc.

In 11 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.850 · p. 34
कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ॥ ८५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.124 · p. 82
स्याद्ब्रह्मादेवपर्यायपिशुनः कलिकारकः ।देवब्रह्मा देवलः स्याद्दुर्वासास्तु कुशारणिः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.13 · p. 440
सोमो दत्तश्च दुर्वासा आत्रेयाश्च ततः परः ।बृहस्पत्यभ्युचथ्याद्या अङ्गिरस्तनया अथ ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 242
कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ।राहुलो गौतमस्तस्य त्वहल्या कामिनी भवेत् ।भवेद्व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.145 · p. 26
यवक्रीतो रोहिते स्याज्जरत्कारुर्ययावरः ।कुशारणिस्तु दुर्वासा ह्यष्टावक्रस्तु गर्भजः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.10 · p. 42
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणीः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1419 · p. 224
ऋषिः कुशारणिश्चैव दुर्वासा अपि मन्यते ॥ १४१९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.100 · p. 117
कुशारणिस्तु दुर्वासाः कृतकोटिस्तु काश्यपः ।वशिष्ठोऽरुन्धतीनाथो वसिष्ठोऽपि निगद्यते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.208 · p. 28
अन्येऽजीगर्तदुर्वासःकपिलश्वेतकेतवः ।पैङ्गैतरेयमाण्डव्यकौषीतककलापिनः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.18 · p. 59
देवब्रह्मा देवलश्च दुर्वासास्तु कुसारणिः ।प्रचेतसस्तु वाल्मीकिः कविज्येष्ठः कुशीवशः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.156 · p. 96
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणिः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.