कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdacandrikā

शब्दचन्द्रिका Śabdacandrikā

125 verses · 947 words tagged · 244 marked doubtful (dashed)

मनुष्याधिकारः पञ्चमस्सर्गः · ब्राह्मणप्रकरणम्

इति बाणकविविरचितायां शब्दचन्द्रिकायां समुद्राधिकारश्वतुर्थस्सर्गः ॥

पञ्चमः सर्गः

मनुष्या मानुजा मान्या मानुषा मानवाः स्मृताः ।द्विपादो नहुषो गोधाः प्रातः पञ्चजना नरः ॥ १ ॥
5.1.1 · p. 41
अनुष्टुप्
ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टयम् ।उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
5.1.2 · p. 41
अनुष्टुप्
ब्राह्मणो मुखजो विप्रो गीर्वाणो वेदपालकः ।क्षेत्रज्ञो ब्रह्मकुलजो भूदेवो मुखवर्णजः ॥ ३ ॥
5.1.3 · p. 42
अनुष्टुप्
वेदगर्भो मन्त्रमुखः पवित्रपद इत्यपि ।ब्रह्मचारी व्रती कुण्डी गृहस्थः स्नातकी च सः ॥ ४ ॥
5.1.4 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
गृहमेधी गृहपतिः यजमानो गृहीति च ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ ५ ॥
5.1.5 · p. 42
अनुष्टुप्
अगस्तिः कलशीपुत्रोऽगस्त्यो वातापिसूदनः ।तपनः पीतजलधिः प्रमाणपुरुषः शिवः ॥ ६ ॥
5.1.6 · p. 42
अनुष्टुप्
क्वाधिः सुधर्मिणीकान्तस्तस्य भार्या वरप्रदा ।प्राचेतसस्तु वाल्मीकिः वाल्मीकश्च कुशी कविः ॥ ७ ॥
5.1.7 · p. 42
अनुष्टुप्
शालातुरीयको दाक्षिपुत्रः पाणिनिराहिकः ।हलभूतिस्तूपवर्षः कृतकोटिकविश्व सः ॥ ८ ॥
5.1.8 · p. 42
अनुष्टुप्
याज्ञवल्कस्तु योगज्ञो योगेशो ब्रह्मरात्रिकः ।अयवस्तु वसिष्ठः स्याद्यज्ञस्यस्तु पराशरः ॥ ९ ॥
5.1.9 · p. 42
अनुष्टुप्
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणीः ॥ १० ॥
5.1.10 · p. 42
अनुष्टुप्
अष्टावक्रस्तु गर्भाजिः दृढस्युद्युद्मवाहकः ।यजनो याजनश्चैवाध्ययनोऽध्यापकस्तथा ॥ ११ ॥
5.1.11 · p. 42
अनुष्टुप्
दानं दानप्रतिग्राह्यं षट्कर्माणीरितानि च ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १२ ॥
5.1.12 · p. 42
अनुष्टुप्
विहायनं निर्वपणं स्पर्शनं प्रतिपादनम् ।उत्सर्जनं प्रदेशनमुपसर्जनमंहतिः ॥ १३ ॥
5.1.13 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
अतोयं सात्विकं दानमुदपूर्वं तु पौष्टिकम् ।आशिषाशन्तिकं दानं काम्यं प्रावरणं स्मृतम् ॥ १४ ॥
5.1.14 · p. 42
अनुष्टुप्
आशासनेऽर्थना याच्या याचनाद्येषणाऽर्दना ।भिक्षाचर्या तु श्ववृत्तिः स्यान्मार्गणा तु गवेषणा ॥ १५ ॥
5.1.15 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्