कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गौतम

gautamaपुं · masc.

In 14 kośas: 31 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.624 · p. 27
मेदोऽस्थिकृद्वपा मांसात्तेजोजे गौतमं वसा ॥ ६२४ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.850 · p. 34
कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ॥ ८५० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.229 · p. 45
गौतमं मांसतेजोजं हृन्मेदः स्त्री वसा वपा ।मांसपर्यायतः स्नेहपर्यायमथ गोदकम् ॥ २२९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.133 · p. 83
जरत्कारुस्तयोः पुत्र आस्तीकश्चास्तिकोऽपि च ।गौतमस्तु शतानन्दो मातुरीयस्तु पाणिनिः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.55 · p. 95
द्रौणायनिः कृपीपुत्रो द्रौणिर्द्रोणायनोऽपि च ।अश्वत्थामापि गौरः स्यात्कृपाचार्यस्तु गौतमः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.6 · p. 368
सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः ।शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.214 · p. 403
भार्गवो जमदग्निः स्याद्यमदग्निरपि स्मृतः ।राहूगणो गौतमः स्याद्गोतमोऽप्यथ गाधिजः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 222
गौतमं मांसजं तेजःसंभवं च वपा च सा ।मस्तिष्कोऽस्त्री शिरःस्नेहो मस्तु[89b]लुङ्गक इत्यपि ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 242
कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ।राहुलो गौतमस्तस्य त्वहल्या कामिनी भवेत् ।भवेद्व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 242
गौतमश्च जरत्कारुरसितो बहवोऽपरे ।गर्गस्यान[104b]न्तरापत्ये गार्गिर्नाडिर्द्ध(र्न)डस्य च ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.144 · p. 26
योगज्ञो याज्ञवल्के च वसिष्ठे ह्यायवः स्मृतः ।पराशरे तु यज्ञास्यः शतानन्दस्तु गौतमे ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 114 · p. 57
वर्षीयान् वृषभो ज्यायान् पुरुराद्यः प्रजापतिः ।ऐक्ष्वाकुः(कः) काश्यपो ब्रह्मा गौतमो नाभिजोऽग्रजः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.116 · p. 66
तथा हैमवतेन्द्रौ च सर्षपो मूलकोऽपरः ।कालिङ्गो विस्फुलिङ्गोऽपि गौतमोऽप्येष विश्रुतः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.282 · p. 136
मेदो मांसस्य तेजो हि मांसजं गौतमं बसा ।कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.10 · p. 42
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणीः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1007 · p. 154
अस्थिकृन्मांसजं मेदो मांसतेजश्च गौतमम् ।तथा वपा वसा चेति मेदनामानि मन्यते ॥ १००७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1313 · p. 224
गौतमश्च शतानन्दो नामाऽस्ति गौतमस्य वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्ति (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2159 · p. 355
मकटो मुस्तकः कुष्ठो मेषशृङ्गश्च मूलकः ।गौरार्द्रकश्च कालिङ्गो कैराटकश्च गौतमः ॥ २१५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.19 · p. 3
वागशनिर्जितारिः स्यादर्हणोऽर्हन् महासुखः ।गौतमः शाक्यसिंहः स्यान्मायादेवीसुतः खजित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.101 · p. 117
गौतमश्च शतानन्दस्त्वहल्यातनयोऽपि च ।विश्वामित्रो गाधिजः स्यात् कौशिको गाधिभूरपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.41 · p. 5
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ।दिगम्बरस्तु नग्नाटः क्षपणः श्रमणो जिनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.202 · p. 27
लोपामुद्रा वधूर्देवमुनयो नारदादयः ।स्याद्गौतमो दीर्घतपा अहल्या तत्सधर्मिणी ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.204 · p. 27
भृग्वङ्गिरोऽत्रिजमदग्निवसिष्ठवत्स-वत्सारकाश्यपबृहस्पतिकण्वगर्गाः ।और्वाजगृत्समदगौतमवीतिहव्य-वाधूलकुण्डिनपराशरदेवराताः ॥ २०४ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.920 · p. 115
पाराशरमथ वृत्तं मन्दाक्रान्तावसन्ततिलकादि ।मन्वत्रिविष्णुहारीतसंवर्तयमगौतमाः ॥ ९२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1761 · p. 213
कण्वकौण्डिन्यशाण्डिल्यमौद्गल्यात्रेयभार्गवाः ।काश्यपाङ्गिरसौर्वाजगार्ग्यहारीतगौतमाः ॥ १७६१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.21 · p. 59
गौतमस्तु शतानन्दः कणादः काश्यपः समौ ।धन्वन्तरिर्दिवोदासः काशिराजः सुधोद्भवः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.35 · p. 5
गौतमश्चार्कबंधुश्च जिनस्त्वर्हंस्त्रिकालदृक् ।अष्टकर्मपरिभ्रष्टो वीतरागश्च केवली ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.156 · p. 96
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणिः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.108 · p. 182
विस्रमस्थिकरं स्नेहवरं गौतममित्यपि ।अथास्थि कीकसं विड्डं कललं क्रूरमाढिकम् ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.90 · p. 285
हृद्ये प्रवीणे द्रुपदात्मजायांस्त्रियामथर्षेर्भिदि शाक्यसिंहे ।स्याद्गौतमः स्त्री उमरोचनायां ।गोदावरीशम्भुकलत्रयोश्च ॥ ९० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.697 · p. 107
गोतमं तु धनुर्भदे क्ली (जडे तु त्रि) ना पुनः ।ऋषिभेदे शाक्यमुनौ गौतमो गौतमी पुनः ॥ ६९७ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.35 · p. 255
गौतमः पुंसि बुद्धे च मुनिभेदे च कीर्त्यते ।गौतमी स्त्री तु दुर्गायां रोचनी शप्तसीभिदोः ॥
अनुष्टुप्