कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अत्रि

atriपुं · masc.

In 6 kośas: 9 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.213 · p. 403
वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ ।मारीचोऽप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥ २१३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.9 · p. 439
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.75 · p. 34
लोपामुद्रा तु वरदा सा स्त्री कौपा[शा?]तकी मता ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.116 · p. 17
सप्तर्षीणां तु नामानि मरीचिरत्रिरङ्गिराः ।पुलस्त्यश्च महातेजाः ऋतुः वशिष्ठ नामवान् ॥ ११६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.226 · p. 16
उपप्लवश्च विकचः शिखावांश्च शिखीत्यपि ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्चेति विख्याता इमे सप्तर्षयः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.312 · p. 214
स्फोटायनः स्फौटायनः पालकाव्ये करेणुभूः ।कारेणवो मुनिभेदे स्यादत्त्रिरत्रिणा समम् ॥ ३१२ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.13 · p. 2
भृगुरत्रिर्वसिष्ठश्च नव ब्रह्माण इत्यमी ।स्युः संभूतिः स्मृतिः प्रीतिः क्षमा ख्यातिश्च संततिः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.204 · p. 27
भृग्वङ्गिरोऽत्रिजमदग्निवसिष्ठवत्स-वत्सारकाश्यपबृहस्पतिकण्वगर्गाः ।और्वाजगृत्समदगौतमवीतिहव्य-वाधूलकुण्डिनपराशरदेवराताः ॥ २०४ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.920 · p. 115
पाराशरमथ वृत्तं मन्दाक्रान्तावसन्ततिलकादि ।मन्वत्रिविष्णुहारीतसंवर्तयमगौतमाः ॥ ९२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.