ऋषि
ṛṣiपुं · masc.In 20 kośas: 27 synonym verses, 8 as a nānārtha head word, 27 as a meaning of another word.
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
ऋषिस्त्रिकालदर्शी स्यान्मुनिर्वाचंयमो मतः ।प्राचेतसस्तु वाल्मीकिर्मैत्रावरुण उच्यते ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
निदिध्यासनमप्येतन्मननं त्वात्मचिन्तनम् ।ऋषयो मन्त्रद्रष्टार ऋषयः संशितव्रताः ॥ १२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्त्र (wrong syllable)
genderपुंmasc.
भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः ।नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥
अनुष्टुप्
genderपुंmasc.
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।रामेण रावणवधो रामायणमथोच्चयः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
नरासिराशिवमतिदुन्दुभीनामृषेरपि ।वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderपुंmasc.
द्वयातिगः सात्त्विकः स्याद्यो भवेद्विरजस्तमाः ।ऋषयः सत्यवचसः सात्वन्तो ब्रह्मतत्पराः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
ऋषिः करीषज्वलने तु कर्षू-र्वृषश्च कुल्माष-तुषौ तरीषः ।निर्यूह-हाहा-कलहाश्च हूहूःस्यान्नग्नहूर्निष्कुह इत्यहान्ताः ॥ २६ ॥
उपजातिः
genderपुंmasc.
एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला ।कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः ।मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 र (wrong syllable); pāda 3, syllable 5 न्या (wrong syllable)
genderपुंmasc.
ऋषिस्त्रिकालदर्शः स्यान्मौनी वाचंयमी मुनिः ।तपनः कुम्भपुत्रः स्यादगस्त्यः पीतसागरः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
ऋषिर्मुनिर्यतिर्भिक्षुस्तापसः संशितो व्रती ।तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शिवावयवकोटीशवंशोड्डीशवृषाः कुशः ।पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
पितृमन्त्रः स्वधा स्वाहा हविः सागोऽग्निवल्लभा ।मनुर्मन्त्रः ऋषिर्मन्त्रदर्शको मन्त्रचारकः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
गृहमेधी गृहपतिः यजमानो गृहीति च ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वाचंयमो मुनिर्दान्तः तपःक्लेशसहे स्मृतः ।वटुर्वर्णी ब्रह्मचारी शापास्त्रः सत्यवागृषिः ॥
अनुष्टुप्
genderपुंmasc.
मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः ।रिष्यृषी यति-यतिनौ श्रमण-श्रवणौ तथा ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
genderपुंmasc.
वृत्ताध्ययनवान् ब्रह्मवर्चसी सत्यवाक् शुचिः ।ऋषिस्त्रिकालसंदर्शी मुनिर्वाचंयमो व्रते ॥ ११९३ ॥
अनुष्टुप्
genderपुंmasc.
विनायकस्तु बुद्धः स्यादृषिर्हंसस्त्रिकालदृक् ।गौरेयो बर्हवासाः स्यान्मघवानहिशासनः ॥ १७४८ ॥
अनुष्टुप्
genderपुंmasc.
कपिञ्जलो वञ्जुलः स्यात् पिङ्गला ऋषिरित्यपि ।स्यात् साकेतमयोध्यायां काशी वाराणसी समे ॥ १८१० ॥
अनुष्टुप्
genderपुंmasc.
भाले तिस्रो भस्मरेखास्त्रिपुण्ड्रकमथर्षयः ।शापास्त्राः सत्यवचसो व्यासाद्यास्तु महर्षयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।साङ्ख्यं समीक्षं स्याद्दिव्यदोहदं तूपयाचितम् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
योगपट्टस्तु चीना स्यात् पर्यस्तिरवसक्थिका ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च ।ज्ञानवृद्धे क्षपणकेऽप्यृतुस्तु शिशिरादिषु ॥ १७ ॥
अनुष्टुप्
ऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि ।ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥
अनुष्टुप्
ऋषयः श्रुतिभृग्वादिज्ञानवृद्धदिगम्बराः ।ऋक्षोऽच्छभल्ले मण्डूकपर्ण ऋक्षं तु तारके ॥ १८७८ ॥
अनुष्टुप्
भल्लूके शोणके चक्षो नक्षत्रे पुंनपुंसकम् ।ऋषिर्वेदेऽपि कक्षस्तु दोर्मूले शुष्ककानने ॥ ४३६ ॥
अनुष्टुप्
meaningsवेद
ग्रीष्मोष्णबाष्पा ऊष्माण ऊर्जावुत्साहकार्तिकौ ।ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगंबरे ॥ ९ ॥
अनुष्टुप्
ऋषि as a meaning in nānārtha verses
- धरणिकोश शाण्डिल्यपौलस्त्यो रावणे श्रीदे शाण्डिल्य ऋषिबिल्वयोः । बालेयो गर्दभे दैत्ये पर्यायोऽवसरे क्रमे ॥ Dharaṇikośa 25.1.11
- कोषकल्पतरु कुशिकतैले कुशिकं शिष्टे शेषे सर्जार्जयोश्चर्षौ । चषकोऽस्त्री मधुपात्रे मद्यविशेषे त[था] क्षौद्रे ॥ ३५ ॥ Koṣakalpataru 6.1.35
- नानार्थार्णवसंक्षेप नस्रमहानाम्न्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् । नगो गिरौ तरौ नस्र ऋषौ नासापुटेऽप्यथ ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 2.2.67
- नानार्थार्णवसंक्षेप कतसिते वर्णे तुरङ्गस्य कश्यं त्वश्वस्य मध्यमे । म(ध्ये?द्ये) च क्ली कशार्हे तु त्रिः कतस्तु पुमानृषौ ॥ १६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.161
- नानार्थार्णवसंक्षेप कुञ्जहनौ लतादिपिहितोदरेऽथो पुंस्यृषौ क्वचित् । कुब्जस्तु गडुले त्रि स्यान्निखर्वे चापि सज्जनः ॥ २३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.231
- नानार्थार्णवसंक्षेप भेलपूज्याप्राज्यप्रहीणेषु पुमांस्त्वृष्यन्तरे क्वचित् । चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ॥ ९२० ॥ Nānārthārṇavasaṃkṣepa 2.5.920
- नानार्थार्णवसंक्षेप मर्त्तत्रि(तु?षु) क्षीबे च हृष्टे च क्लीबं तु मदकर्मणि । मर्त्तस्त्वृप्यन्तरे पुंसि मर्त्यलोकेऽप्यथ द्वयोः ॥ ९४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.947
- नानार्थार्णवसंक्षेप मुनिमुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् । अगस्त्यर्षौ च सुगते कुशे दमनके तथा ॥ १००९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1009
- नानार्थार्णवसंक्षेप वत्सवत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके । ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1167
- नानार्थार्णवसंक्षेप शक्तिशर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृष्यन्तरे पुमान् । स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्ये नीतिवेदिनाम् ॥ १३२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1322
- नानार्थार्णवसंक्षेप शुक्तिवैजयन्त्यां तु कर्षाख्यमानस्य द्विगुणेऽपठीत् । अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ १३९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1398
- नानार्थार्णवसंक्षेप शुबिसखाय आनिषीदेति पञ्चवर्गस्य दर्शके । शुभिस्तु नार्के यतिनि स्यादृषाविति कश्चन ॥ १३९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1399
- नानार्थार्णवसंक्षेप अभीककमितर्यपि ना तु स्यादृषिभेदे च सामगे । रभसस्तु कवौ चाह पुंस्येवैनं बहुश्रुतः ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 4.94
- नानार्थार्णवसंक्षेप काश्यपऋषिभेदे च चन्द्रे च स्यादिक्ष्वाकोः कुलस्य यः । द्वितीयोः नृपतिस्तत्र मरीचितनये स्मृतः ॥ ४५० ॥ Nānārthārṇavasaṃkṣepa 4.450
- नानार्थार्णवसंक्षेप कुटलीअथ स्यात् कुटली गात्रकृत्यृषौ पुंसि नप् पुनः । विद्यादाभरणेऽथ त्रिः कुटिलं कुञ्चिते भवेत् ॥ ५३३ ॥ Nānārthārṇavasaṃkṣepa 4.533
- नानार्थार्णवसंक्षेप जीवलवचायामृषिभेदे तु नाथ कूर्ममयूरयोः । जीवथो द्वे अथ पुमान् जीवन्त ऋषिभेदके ॥ ८०२ ॥ Nānārthārṇavasaṃkṣepa 4.802
- नानार्थार्णवसंक्षेप नकुलऋषिभेदे वर्णभेदे योः वर्णो नकुले स्थित । तद्वति त्रिरथो क्लीबं पुंस्यन्ये नमनं विदुः ॥ १००१ ॥ Nānārthārṇavasaṃkṣepa 4.1001
- नानार्थार्णवसंक्षेप मरीचिसप्तानामृषिभेदानामयमन्यतमे पुमान् । मधुवाक् तु द्वयोर्ज्ञेयः कोकिले भेद्यवत् पुनः ॥ १३८४ ॥ Nānārthārṇavasaṃkṣepa 4.1384
- नानार्थार्णवसंक्षेप रोमशऊषणे रभसः प्राह तस्य मूलं विचिन्त्यताम् । रोमशस्त्वृषिभेदे ना निम्बवृक्षेऽप्यथ द्वयोः ॥ १५३८ ॥ Nānārthārṇavasaṃkṣepa 4.1538
- नानार्थार्णवसंक्षेप वधूलबल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः । वधूलस्तु गजे द्वे स्यादृषिभेदे तु पुंस्ययम् ॥ १६३२ ॥ Nānārthārṇavasaṃkṣepa 4.1632
- नानार्थार्णवसंक्षेप और्वशेयउदुम्बरस्य सम्बन्धिन्येतत् स्याद्भेद्यलिङ्गकम् । और्वशेयस्त्वगस्त्यर्षौ ना द्वयोस्तूर्वशीसुते ॥ १३३ ॥ Nānārthārṇavasaṃkṣepa 6.133
- नानार्थार्णवसंक्षेप वृषाकपिवृषाकपिस्तु पुंसि स्यादग्नौ सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषौ ॥ ५८४ ॥ Nānārthārṇavasaṃkṣepa 6.584
- नानार्थार्णवसंक्षेप वैखानसवैखानसस्तु ना वानप्रस्थेऽप्यृषिषु केषुचित् । सामभेदे पुनः क्ली स्याच्छतमानं तु पुन्नपोः ॥ ५९२ ॥ Nānārthārṇavasaṃkṣepa 6.592
- नानार्थार्णवसंक्षेप औदुम्बरायणऋष्यन्तरे कृतोद्वाहद्विजे चौदुम्बरायणः ॥ १-१/२ ॥ Nānārthārṇavasaṃkṣepa 8.4
- शब्दरत्नाकर कौशिकगुग्गुलूलूकशक्रर्षिव्यालग्राहिषु कौशिकः । कृतान्तो दैवसिद्धान्तयमाकुशलकर्मसु ॥ २०६१ ॥ Śabdaratnākara 4.1.2061
- त्रिकाण्डशेष दीर्घायुस्मणिदोषे दरे त्रासो दासो वित्तात्मचेटयोः । झिण्ट्याञ्च दासी दीर्घायुरृषिः काकश्च शाल्मलिः ॥ ४४७ ॥ Trikāṇḍaśeṣa 3.3.447
- वैजयन्ती कौशिककौशिको गुल्गुलूलूकशक्रर्षिष्वाहितुण्डिके । कलंकोंऽकेऽपवादे च कलहो द्वन्द्वयुद्धयोः ॥ १७ ॥ Vaijayantī 7.1.17