मरीचि
marīciपुं · masc.In 20 kośas: 31 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
रोचिस्क्लीउस्रपुंरुचिस्त्रीशोचिस्क्लीअंशुपुंगोस्त्रीज्योतिस्क्लीअर्चिस्क्लीउपधृतिस्त्रीअभीशुपुंप्रग्रहपुंशुचिपुंमरीचिपुंस्त्रीदीप्तिस्त्रीधामन्क्लीकेतुपुंघृणिपुंरश्मिपुंपृश्निस्त्रीपादपुंदीधितिस्त्रीकरपुंद्युतिस्त्रीद्युत्स्त्रीरुच्स्त्रीविरोकपुंकिरणपुंत्विषिस्त्रीत्विष्स्त्रीभास्स्त्रीप्रभास्त्रीवसुक्लीगभस्तिपुंभानुपुंभास्त्रीमयूखपुंमहस्क्लीछविस्त्रीविभास्त्री
genderपुंस्त्रीm. f.
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderपुंmasc.
षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका ।ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥ ५१६ ॥
अनुष्टुप्
genderस्त्रीfem.
रोचिः शोचिः पुनश्चार्चिर्न ना पृश्निः शुचिश्च सा ।गौर्मरीचिर्नोमनिधिर्मृगतृष्णा मरीचिका ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्नो (wrong syllable)
genderपुंmasc.
मनोजवो जितक्रोधो हंसश्रेणियुजः कलाः ।तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
मषीषुधृत्यहिजटिजाटलीनां सृणेरपि ।मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderपुंmasc.
लोपामुद्रा तु वरदा सा स्त्री कौपा[शा?]तकी मता ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पाय्यं हस्तादिभिस्तत्र वंशी तु त्रसरेणुकः ।षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥ ३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
तिन्दुक-शल्यक-शम्बुक-शम्बूकाः शङ्कुरङ्कभिदि ।आखुः कङ्गुः शुङ्गोगौश्च*वीचिर्मरीचिलञ्चे च ॥ १९ ॥
metre not recognised
genderपुंस्त्रीm. f.
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
द्योतिरंशुः छविः केतुमरीचिरुचिरोचिषः ।अर्चिविरोकरुक्शोचिमयूखोस्रगभस्तयः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
genderपुंmasc.
केलिर्मौलिर्मरीचिश्च पृश्निस्तिथ्यशनी हलिः ।गव्यूतिः स्वातिबस्तीषुधयोऽहिः पार्ष्णिरप्यथ ॥ ११५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शिखा मरीचिः ष्ट्यूमश्च स्थूमः शम्बः खरः शरः ।सूर्यसोमाग्निमुख्यानामंशुष्वेते प्रकीर्तिताः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः ।रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
भानोः करो मरीचिः स्यान्मयूखो विश्वविक्रमः ।मेघसूश्च जलग्राही वेदरश्मिः घृणिः करः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः ।घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
सप्तर्षीणां तु नामानि मरीचिरत्रिरङ्गिराः ।पुलस्त्यश्च महातेजाः ऋतुः वशिष्ठ नामवान् ॥ ११६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
उपप्लवश्च विकचः शिखावांश्च शिखीत्यपि ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्चेति विख्याता इमे सप्तर्षयः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
ब्राह्मी गौर्भारती भाषा वाग्वाणी गीः सरस्वती ।मरीचिरङ्गिरा दक्षः पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
तारा सुकेश्यनुम्लोचा सहजन्या तिलोत्तमा ।कृतस्थला मञ्जुघोषा मरीचिः पुञ्चि(ञ्जि?)कस्थला ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सप्तर्षयो मरीच्याद्यास्ते तु चित्रशिखण्डिनः ।अगस्त्यः कुम्भजोऽगास्तिर्मैत्रावरुणिरस्य तु ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
सत्या जयाश्च पितरो वैकुण्ठा हरयोऽजिताः ।मरीचयः सुशर्माणः स्वरूपा अमृतौजसः ॥
अनुष्टुप्
genderपुंmasc.
genderपुंस्त्रीm. f.
अथ स्त्रीपुंसयोः केलिर्मणिर्योनिर्मसिर्मुनिः ।मरीचिः शाल्मलिः स्वातिः श्रेणिर्मुष्टिस्तिथिः सृणिः ॥ १५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
घृष्टिपादमयूखांशुसांध्योद्योतगभस्तयः ।किरणोस्रौ च रोचिः क्ली रश्मिरक्ली मरीचिवत् ॥ १६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सप्तानामृषिभेदानामयमन्यतमे पुमान् ।मधुवाक् तु द्वयोर्ज्ञेयः कोकिले भेद्यवत् पुनः ॥ १३८४ ॥
अनुष्टुप्
meaningsऋषि
doubtful
मरीचिर्ना मुनी रश्मिर्वा स्त्री स्त्री मृगतष्णिका ।मोहनं सुरते मद्ये महिषी पशुराट्स्त्रियोः ॥ २१४७ ॥
अनुष्टुप्
मरीचिर्मुनिभेदेऽपि चौरवह्नी मलिम्लुचौ ।कक्कोलेऽपि च मारीचो मोचा शाल्मलिरम्भयोः ॥ ७७ ॥
अनुष्टुप्
meaningsमुनिभेद
मरीचि as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप गोप्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् । धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 1.5.5
- शब्दरत्नाकर गोकः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये । गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥ Śabdaratnākara 4.1.2241
- तन्त्राभिधान घमरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ॥ ६७ ॥ Tantrābhidhāna 2.21.67
- तन्त्राभिधान पदक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥ Tantrābhidhāna 2.38.123