वीरण
vīraṇaक्ली · neut.In 8 kośas: 8 synonym verses, 3 as a meaning of another word.
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥लामज्जकं लघुलयमवदाहेष्टकापथे ।
अनुष्टुप्
genderक्लीneut.
अभयं वीरणं वीरं समगन्धिकमित्यपि ।रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥ ४०२ ॥
अनुष्टुप्
genderक्लीneut.
रणप्रियं वीरतरं वीरं वीरणमित्यपि ।उशीरमस्त्री तन्मूलमभयं नलदं च तत् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
वीरणे तु वीरतरं वीरभद्रं सुमूलकम् ।मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् ॥ ३८४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
genderक्लीneut.
तथा कान्तारकाद्याश्च विज्ञेया लोकशास्त्रतः ।वीरणं स्याद्वीरतरं विरणञ्च कटायनम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वी (wrong syllable)
genderक्लीneut.
ह्रीबेरशालकोदीच्यबर्हिष्ठानि वराङ्गकम् ।केशाम्बुनामकं वीरतृणं स्याद्वीरणः पुमान् ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम् ।सेव्या मृणालनलदलमज्जानि जलाशयम् ॥ २३१ ॥
अनुष्टुप्
genderक्लीneut.
वीरण as a meaning in nānārtha verses
- कोषकल्पतरु वीरभद्रस्याद्वीरणेऽन्त्येऽप्यथ पारिभद्रो मन्दारके स्यादपि निम्बवृक्षे । प्रलम्बशत्रौ बलभद्र उक्ता त्रायन्तिकायां च कुमारिकायाम् ॥ ३२ ॥ Koṣakalpataru 6.27.32
- शब्दरत्नावली अभयअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नावली वीरभद्रवावकीरस्तु वेधिन्यां नीराजितहयेऽपि च । वीरभद्रोऽश्वमेधीयघोटके वीरणार्ययोः ॥ Śabdaratnāvalī 7.27.140