शिशिर
śiśiraपुं · masc.In 18 kośas: 29 synonym verses, 5 as a nānārtha head word, 8 as a meaning of another word.
genderपुंmasc.
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderविadj.
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥
अनुष्टुप्
genderविadj.
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंक्लीm. n.
त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
metre not recognised
genderपुंmasc.
प्रालेयमवश्यायस्तुहिनं शिशिरं हिमं तुषारं च ।मिहिका स्यान्नीहारो हिमसंघातो हिमानी च ॥ ६५० ॥
आर्या
genderक्लीneut.
कन्यातुलस्थे तपने ज्ञेयः शरदृतुः सदा ।हेमंतश्चालिचापस्थे शिशिरो मृगकुम्भयोः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
अभयं वीरणं वीरं समगन्धिकमित्यपि ।रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥ ४०२ ॥
अनुष्टुप्
genderक्लीneut.
शीतं गुणे तद्वदर्थं सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ ८ ॥
अनुष्टुप्
genderविadj.
उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः ।झोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च रेवतः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
हिमागमस्तु हेमन्तः प्रालेयो रौद्रहेमनौ ।अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥ ६७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चक्रचुक्रकुलीराणां तुषाराङ्गारयोरपि ।शिशिराडम्बरक्षीरकोटराणां ततोऽपि च ॥ १७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धूमरी धूममहिषी कुहरिर्दिग्वगुण्ठनम् ।शिशिरं शीतलं शीतं सुशीतमहिमास्त्रियाम् ॥
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
ऊर्जकार्तिकिकौ मासौ द्वावृतुः परिकीर्तितः ।रौद्रः प्रशलहेमन्तौ शैषस्तु शिशिरोऽपि च ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
क्रियेन्द्रियं पाणिमुख्यं स्पर्शनादि मतीन्द्रियम् ।------------ [48] सुशीमः शिशिरो जडः ॥ २७७ ॥
metre not recognised
genderविadj.
स्तनयित्नुर्धूमयोनिर्मुदिरः शिशिरः शुची ।अजिरगः कन्दरश्च नागः कन्धर इत्यपि ॥ ७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 र (wrong syllable)
genderपुंmasc.
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
शिशिरश्चेति विज्ञेया ऋतवः षट् द्विमासिकाः ।अब्दः संवत्सरो वर्षं वत्सरो हायनः शरत् ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
हिमागमस्तु हेमन्तो रौद्रश्च प्रसलस्तथा ।शैषस्तु शिशिरश्चैव वसन्तस्तु बलाङ्गकः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सूशीमः शिशिरश्चैव जडोऽपि कथ्यते पुनः ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderविadj.
शीतं गुणे तद्वदर्थाः सन्त्येते वाच्यलिङ्गकाः ।सुषीमः शीतलः शीतस्तुषारः शिशिरो हिमम् ॥
अनुष्टुप्
genderविadj.
हेमन्तः शिशिरश्चैव वसन्तो ग्रीष्म एव च ।वर्षा शरच्च संप्रोक्त ऋतुः षट्संख्यकः पुमान् ॥
अनुष्टुप्
genderपुंmasc.
शैष-शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः ।ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ ॥ ४८ ॥
metre not recognised
genderपुंmasc.
हिमानी हिमसंघाते शिशिरः शीतलो जडः ।हिमः शीतस्तुषारश्च षडमी तद्वदर्थकाः ॥ १८१ ॥
अनुष्टुप्
genderविadj.
त्रिषु मेघंकरं मेघविधायिनि शरत् स्त्रियाम् ।हिमकालस्तु हेमन्तः शिशिरः पुंनपुंसके ॥ २५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हेमन्तः प्रसवो लोध्रः शैखस्तु शिशिरोऽस्त्रियाम् ।मधुर्वसन्तः सुरभिर्वलांगः पुष्पसारणः ॥ ८७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तुषारः शिशिरः स्फीतः सेभ्यः सीमो हिमोऽपि च ।उष्णं ज्वलः खरः क्रूरो बालस्तिग्मः कृशश्चुपः ॥ ७ ॥
अनुष्टुप्
genderविadj.
मल्लीप्रसूनेऽप्यजिरं तु न स्त्रीकायेऽङ्गनेऽन्त्ये नरि दर्दुरे स्यात् ।स्यादाशिरश्चाशरवद्धुताशेनिशाचरेऽर्के शिशिरस्त्वृतौ ना ॥ ११ ॥
उपजातिः
meaningsऋतु
शीतेऽन्यवत्स्याद्वशिरः किणिह्यांशिन्धूद्भवे चेभकणासु न स्त्री ।स्यान्मूषके ना शुषिरोऽन्तिमे तुवंश्यादिवाद्ये विवरेऽपि तद्वत् ॥ १२ ॥
इन्द्रवज्रा
meaningsशीत
doubtful
शिशिर as a meaning in nānārtha verses
- धरणिकोश सुषीमसत्तमः कथितः श्रेष्ठः साधीयानपि सत्तमः । सुषीमः शिशिरे ख्यातश्चारौ च पन्नगान्तरे ॥ Dharaṇikośa 24.2.18
- धरणिकोश तपस्तपश्चान्द्रायणादौ स्यात्तपाः शिशिरमाघयोः । तपो वै धर्मलोकश्च जनो लोकात्परस्तपः ॥ Dharaṇikośa 31.3.6
- कोषकल्पतरु हिमयोषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सिते क्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि । तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमे न स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥ Koṣakalpataru 6.25.57
- कोषकल्पतरु सुषीमउत्कृष्टशोभास्वथ सर्पभेदे पुमान्सुषीमः शिशिरे मनोज्ञे । स्यात्पञ्चमो रागभिदि स्वरे च विशेष्यवत्पूरणवाचकश्च ॥ ८९ ॥ Koṣakalpataru 6.25.89
- कोषकल्पतरु तपस्पुमानदन्तोऽथ तपोऽपि धर्मे दर्भे च कृच्छ्रादिषु लोकभेदे । माघे तु न स्त्री शिशिरे तु पुंसि तपस्तथा ग्रीष्मऋतौ तु पुंसि ॥ ६ ॥ Koṣakalpataru 6.31.6
- शब्दरत्नावली तपस्तरस्तीरे बले वेगे प्लवने च नपुंसकम् । तपः क्लीबं लोकभेदे धर्मे चान्द्रायणादिषु । पुंसि माघे च शिशिरे त्वस्त्रियामपि कुत्रचित् ॥ Śabdaratnāvalī 7.32.22
- त्रिकाण्डशेष शीतलशालिर्गन्धमृगे धान्ये शयालुः कुक्कुरेऽलसे । शकलं वल्कले खण्डे शीतलः शिशिरेऽनिले ॥ ४०९ ॥ Trikāṇḍaśeṣa 3.3.409
- वैजयन्ती तपस्विन्श्रेष्ठे वृषांगे राजांके ककुदोऽस्त्री ककुन्न षण् । तपस्वी शिशिरे शोच्ये चन्द्रे मांसी तपस्विनी ॥ २८ ॥ Vaijayantī 8.5.28