कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · रान्ताः (3/3)

स्याद्वीरणेऽन्त्येऽप्यथ पारिभद्रोमन्दारके स्यादपि निम्बवृक्षे ।प्रलम्बशत्रौ बलभद्र उक्तात्रायन्तिकायां च कुमारिकायाम् ॥ ३२ ॥
6.27.32 · p. 335
उपजातिः
स्यादर्धचन्द्रो गलहस्तबाण-प्रभेदयोः स्त्री तु भवेत्त्रिभङ्ग्याम् ।स्याद्धार्तराष्ट्रोऽसितवक्त्रपाद-हंसे तथा भोगिनि कौरवेषु ॥ ३३ ॥
6.27.33 · p. 336
उपजातिः
सुराजनि क्षत्रियभेदके चतथा विहंगे धृ[64a]तराष्ट्र उक्तः ।स्त्री हंसपद्यामथ पोत्रिरूपेविष्णौ भुजंगे स्थिरदंष्ट्र उक्तः ॥ ३४ ॥
6.27.34 · p. 336
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 सु (wrong syllable); pāda 2, syllable 1 त (wrong syllable)
शुके खले पुंसि च वक्रनक्रःकटंभरा स्यात्सरणौषधौ च ।गजाङ्गनायां च कलाम्बिकायांमूर्वासु गोलासु पुनर्नवायाम् ॥ ३५ ॥
6.27.35 · p. 336
उपजातिः
कट्यां च कीनाशगतौ तु देह-यात्रा भवेद्भोजनवाचिका च ।स्यात्तुङ्गभद्रा च सरिद्विशेषेमदोत्कटे वाच्यसमः प्रदिष्टः ॥ ३६ ॥
6.27.36 · p. 336
उपजातिः
ऋषभौषधावपि मणिच्छिद्रा प्रोक्ता तथैव मेदायाम् ।दिग्विजयार्थे याने वरयात्रायां च दण्डयात्रा स्यात् ॥ ३७ ॥
6.27.37 · p. 336
गीतिः
रात्रौ विभावरी स्याद्विवादतो वस्त्रलुण्टाक्याम् ।वक्त्रकलत्रे तद्वच्छंभल्यां चापि निर्दिष्टा ॥ ३८ ॥
6.27.38 · p. 336
metre not recognised
नरि कुम्भकार उक्तः कुलालके तत्स्त्रियां कुलत्थ्यां स्त्री ।गदिता तु तुण्डिकेरी कर्पास्यां बिम्बिकायां च ॥ ३९ ॥
6.27.39 · p. 336
आर्या

पञ्चराः ।

वर्धापके पुरोटौ प्रशंसने धूलिगुच्छे च ।स्यात्पांशुचामरो ना तटभुवि दूर्वाञ्चिता[64b]यां च ॥ ४० ॥
6.27.40 · p. 336
metre not recognised
स्यात्पादचत्वरोऽजे पिप्पलसैकतकमण्डलुष्वेषः ।परदोषाख्यायिनरे विप्रतिसारस्तु कौकृत्ये ॥ ४१ ॥
6.27.41 · p. 336
आर्या
रोषे भवेदनुशये पौनःपुन्ये तु भृशार्थे ।इह समभिहार उक्तो घुसृणेऽन्त्ये पीतकावेरम् ।स्यात्पित्तलेऽथ तालीसपत्रमुक्तं च तालीसे ॥ ४२ ॥
6.27.42 · p. 337
metre not recognised
कथितं च तामलक्यामुत्पलपत्रं तु पद्मपर्णे स्यात् ।करजक्षतेऽङ्गनानां तमालपत्रं तु तापिच्छे ॥ ४३ ॥
6.27.43 · p. 337
आर्या
तिलके पत्रकसंज्ञेऽथो निम्बे सर्वतोभद्रः ।काव्यस्य चित्रभेदे स्त्री गम्भार्यां तथा नट्याम् ॥ ४४ ॥
6.27.44 · p. 337
metre not recognised
सुरसरिति कपिलधारा तीर्थविशेषे च संप्रोक्ता ।नमुचिद्विषो नलिन्यां कुहपुरि वस्वोकसारा स्यात् ॥ ४५ ॥
6.27.45 · p. 337
उपगीतिः