कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nighaṇṭuśeṣa

निघण्टुशेष Nighaṇṭuśeṣa

401 verses · 3,129 words tagged · 646 marked doubtful (dashed)

तृणकाण्डः

इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः ।

रौहिषे श्यामकं पौरं पूतीकं भूरि कत्तृणम् ।सौगन्धिकं देवजग्धं शकलं धयमपुद्गले ॥ ३६९ ॥
5.369 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शक (syllable split)
भूस्तृणं रौहिषं छत्रोऽतिच्छत्रश्च कुटुम्बकः ।पूतीकं भूरि पालघ्नं मालातृणसुगन्धिके ॥ ३७० ॥
5.370 · p. 198
अनुष्टुप्
दर्भे दभ्रः खरो बर्हिर्वीरः सूची कुथः कुशः ।सीरी वानीरजो गुन्द्रः पवित्रकुतुकावपि ॥ ३७१ ॥
5.371 · p. 199
अनुष्टुप्
काशे स्यादिक्षुगन्धेक्षुकाण्डश्यामलपुष्पकाः ।वायसेक्षुः पोटगलः कासेक्षुः कोकिलाक्षकः ॥ ३७२ ॥
5.372 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
उलपे बल्वजा वालः केशी दृढलताऽपि च ।इक्षौ रसालो गण्डीरी गण्डकी खड्गपत्रकः ॥ ३७३ ॥
5.373 · p. 199
अनुष्टुप्
तस्यैकादश भेदाः स्युः पुण्ड्रकान्तारकादयः ।नले नडः शून्यमध्यो धमनो नर्तको नटः ॥ ३७४ ॥
5.374 · p. 200
अनुष्टुप्
आरण्यनलको रन्ध्री पोटगलो बिभीषणः ।नली तु ग्रामनलिका नाकुली लेखकाविता ॥ ३७५ ॥
5.375 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
शरे तु मुञ्जो बाणाख्यः स्थूलदर्भः पितामहः ।गुन्द्रस्तेजनको भद्रमुञ्जो याजनकः क्षुरः ॥ ३७६ ॥
5.376 · p. 202
अनुष्टुप्
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
5.377 · p. 202
अनुष्टुप्
तृणे स्यादर्जुनं घासे यवसं चारिरित्यपि ।दूर्वायां तु शतपर्वा भार्गवी विजया जया ॥ ३७८ ॥
5.378 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
मङ्गल्या शाद्बलाऽनन्ताऽमरी प्रतानिका रुहा ।सहस्रवीर्या श्यामाङ्गी हरिता हरिताल्यपि ॥ ३७९ ॥
5.379 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
श्वेतदूर्वा तु गोलोमी शीतवीर्या सिता लता ।गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः ॥ ३८० ॥
5.380 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
मुस्तायां भद्रको भद्रमुस्ता राजकशेरुकः ।गुन्द्री वरोहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वया ॥ ३८१ ॥
5.381 · p. 204
अनुष्टुप्
कुटन्नटे तु कैवर्तीमुस्तकं जीविताह्वयम् ।काण्डीरकं जीर्णबुध्नं गोनर्दं गोपुरं प्लवम् ॥ ३८२ ॥
5.382 · p. 205
अनुष्टुप्
शतपुष्पं दाशपुरं वानेयं परिपेलवम् ।जलमुस्ता मुस्तकाभं शेवालदलसंभवम् ॥ ३८३ ॥
5.383 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
वीरणे तु वीरतरं वीरभद्रं सुमूलकम् ।मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् ॥ ३८४ ॥
5.384 · p. 206
अनुष्टुप्metre not read in every line
लामज्जके तु नलदममृणालं लयं लघु ।इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥ ३८५ ॥
5.385 · p. 206
अनुष्टुप्