उशीर
uśīraक्ली · neut.In 18 kośas: 19 synonym verses, 21 as a meaning of another word.
genderक्लीneut.
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥लामज्जकं लघुलयमवदाहेष्टकापथे ।
अनुष्टुप्
genderपुंक्लीm. n.
उशीरं वीरणीमूलं ह्रीवेरं वालकं जलम् ।मुस्तकः कुरुविन्दः स्याद् गुन्द्रा च जलदाह्वयः ॥ ६२२ ॥
अनुष्टुप्
genderक्लीneut.
वेष्टसारो रमावेष्टः क्षीरशीर्षक इत्यपि ।उशीरं तु मृणालं स्याज्जलवासो हरिप्रियः ॥ ४०१ ॥
अनुष्टुप्
genderक्लीneut.
रणप्रियं वीरतरं वीरं वीरणमित्यपि ।उशीरमस्त्री तन्मूलमभयं नलदं च तत् ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अक्षरमजिरमुशीरंचीवर-चीरे तथैव काश्मीरम् ।जर्जर-कुटीर-वल्लरकर्बुर-कादम्बरोशीरम् ॥ ८ ॥
metre not recognised
genderक्लीneut.
वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरंवप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः ।नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी-रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
एते स्त्रियां भवन्ति । इयं मथुरा नगरी । तनुः शरीरम् । तनूस्तदेव । वर्त्तिनी काष्ठोद्भवं शब्दसाधनम् । सूची मूलं पापस्य । यवागूः अन्नविकारः । वर्णिः सर्णिः । निकाशा कर्षविकारः । शर्करा गुडविकारः । तर्कः पुंसि भवति । अयं तर्क ऊहः । चशब्दः पादपूरणे ।बन्धुरविषाणयोस्त्रिकं भवेत्प[ल्प]ल्वलं तृतीयं स्यात् ।शकटोशीरकुतूहलशराववृन्दानि जानीहि ॥ ८३ ॥
metre not recognised
genderक्लीneut.
वीरणे तु वीरतरं वीरभद्रं सुमूलकम् ।मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् ॥ ३८४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उशीरं वीरुणीमूले कमलं नलिनं कजम् ।पुण्डरीकं च --------पुष्करं पङ्कजं समे ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उशीरमक्षरं चैव सिन्दूरशिबिरोदरम् ।यवसं तरसं मत्सं विसमर्पिशकिल्बिषे ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
पवित्रातिखरावारपारबेराणि कोटरम् ।पत्रमेढ्रसहस्राणि क्षीरोशीरयुगंधराः ॥ १५४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उशीरः सुषिरो धूमकेतुर्यज्ञश्च पिङ्गलः ।वामनो दहनश्चिन्त्यः कामारिश्च प्रजापतिः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
इला चन्द्रवला पृथ्वी बहुला गन्धवीजिका ।अभयं नलदोशीरौ वीरतं वीरणाह्वयम् ॥ २११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उशीरं वीरणीमूलं लामज्जकं जलाशयम् ।अभयऽममृणालञ्च नलदमिष्टकापथम् ॥ २०८१ ॥
metre not recognised
genderक्लीneut.
मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् ।अमृणालं लघुलयं त्विष्टकापथकापथम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
एकोक्त्योशीरमौशीरं पलङ्कशा पलङ्कषा ।राक्षा रक्षा च लाक्षापि तद्रसे याववद्यतः ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderक्लीneut.
मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् ।लामज्जं नलदं सेव्यममृणालं वराभये ॥ ५९२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्याद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम् ।सेव्या मृणालनलदलमज्जानि जलाशयम् ॥ २३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उशीर as a meaning in nānārtha verses
- धरणिकोश नलदजलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ । नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥ Dharaṇikośa 17.1.5
- धरणिकोश सेव्यचोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ । सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥ Dharaṇikośa 25.1.8
- धरणिकोश अभयविजया तिथ्यन्तरं गौरी विजयौ तु जयार्जुनौ । अभये निर्भयोशीरे अभया च हरीतकी ॥ Dharaṇikośa 25.2.23
- कोषकल्पतरु जलाशयस्याद्भागधेयोऽयुजि राजभागे शुभेऽन्तिमे चाथ बिलेशयोऽहौ । आखावुशीरे तु जलाशयं स्या- त्तोयाश्रये पुंसि बुधैः प्रदिष्टः ॥ ८६ ॥ Koṣakalpataru 6.26.86
- नानार्थार्णवसंक्षेप समरकूर्मस्य मकरस्यापि पर्याया निधिभेदयोः । अथैव स्वस्वलिङ्गाः स्युरुशीरे समराह्वयाः ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 2.5.4
- नानार्थार्णवसंक्षेप उशिज्प्रथमापञ्चमीसप्तम्यर्थयुक्तमुशिक् पुनः । ना गौतमर्षो वह्नौ चाप्युशीरे तु स्त्रियां त्रि तु ॥ १०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.105
- नानार्थार्णवसंक्षेप गौरउशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् । गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.379
- नानार्थार्णवसंक्षेप दृढसञ्चारिकायामित्येके दूष्यं तु स्थूलपूययोः । क्ली (तु ? त्रि) दूषयितव्येऽथ दृढं कल्ययउशीरयोः ॥ ६११ ॥ Nānārthārṇavasaṃkṣepa 2.5.611
- नानार्थार्णवसंक्षेप दैत्यद्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् । शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके ॥ ६२० ॥ Nānārthārṇavasaṃkṣepa 2.5.620
- नानार्थार्णवसंक्षेप सेव्यउशीरे नि शरे दध्नि पत्राङ्गाह्वयभेषजे । अब्धिजे लवणे ना तु मध्वासव इति श्रुते ॥ १५५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1554
- नानार्थार्णवसंक्षेप नियुतउशीरेऽथ निदानं स्यात् कारणेऽप्यादिकारणे । सूत्रभेदे च भगवत्पतञ्जलिमुनीरिते ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 3.3.43
- नानार्थार्णवसंक्षेप स्तम्बजस्तम्बजं तु क्लीबलिङ्गमुशीरे भेद्यवत् पुनः । स्तम्बजातेऽथ पुंसि स्यात् स्रवणः कतकाह्वये ॥ १९०६ ॥ Nānārthārṇavasaṃkṣepa 4.1906
- नानार्थार्णवसंक्षेप जलाशयछायाकरश्छत्रधारे समासाद्यत्र पूर्ववत् । जलाशयमुशीरे क्ली जलाधारे तु पुंस्ययम् ॥ २३५ ॥ Nānārthārṇavasaṃkṣepa 6.235
- शिवकोष लाजरजः परागे रेणौ च लाजः स्यादार्द्रतण्डुले । नपुंसकमुशीरेऽथ स्त्रियां पुं भूम्नि चक्षते ॥ १०७ ॥ Śivakoṣa 7.1.107
- शिवकोष नलददरदः पारदे चूर्णपारदे विषभिद्यपि । नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः ॥ २२४ ॥ Śivakoṣa 14.2.224
- शिवकोष अमृणालअमृणालमुशीरे स्याद्दीर्घमूले च न द्वयोः ॥ ४७९ ॥ Śivakoṣa 23.3.479
- शब्दरत्नावली लाजरुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् । क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥ Śabdaratnāvalī 7.8.15
- शब्दरत्नावली नलदतरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली जलाशयउशीरे न द्वयोः पुंसि जलाधारे जलाशयः । केतक्यां मल्लिकायाञ्च तृणशून्यं नपुंसकम् ॥ Śabdaratnāvalī 7.26.55
- वैजयन्ती उशिइनास्त्वात्माधिपार्काढ्या उष्णोऽग्नौ चतुरेऽपि च । उशिर्नाग्नावुशीरेऽस्त्री न नोषः कल्यसंध्ययोः ॥ ८ ॥ Vaijayantī 6.5.8
- वैजयन्ती समरस्योनाके तु सृगालस्य वानरस्य तु सिह्लके । स्पृक्कायां तस्करस्य स्युरुशीरे समरस्य हि ॥ ७ ॥ Vaijayantī 8.6.7