कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेदादि

vedādiपुं · masc.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.9 · p. 1
सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः ।सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ ७ ॥पपीः सदागतिः पीतुः सांवत्सररथः कपिः ।दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ ८ ॥वेदादयः खतिलकः प्रत्यूषाण्डं सुरावृतः ।लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.67 · p. 60
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.354 · p. 25
च्छन्दश्चेति षडङ्गानि वेदानां वैदिको विदुः ।वेदादिः प्रणवो ब्रह्माक्षर उङ्कार ईरितः ।अथेतिहासो व्यासादिरचितो भारतादिकः ॥
अनुष्टुप्
genderपुंmasc.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.