प्रणव
praṇavaपुं · masc.In 15 kośas: 18 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
पणवः पणवा च स्यात्प्रणवोऽप्यत्र वर्तते ।कलाहका काहका च काहलोऽप्यत्र वर्तते ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
आनकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् ।प्रणवः पणवस्तुल्यौ पटहोऽस्त्र्यथ मर्दलः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderपुंmasc.
आन्वीक्षिकी न्यायवीद्या मीमांसा च विचारणा ।ओंकारः प्रणवो वेदान्तः स्यादुपनिषत्तथा ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
उपनिषच्च वेदान्तो वेदसारस्य नामनी ।मन्त्रबीजञ्च प्रख्यातमोङ्कारप्रणवाविमौ ॥ ३६१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable); pāda 3, syllable 5 ञ्च (wrong syllable)
genderपुंmasc.
च्छन्दश्चेति षडङ्गानि वेदानां वैदिको विदुः ।वेदादिः प्रणवो ब्रह्माक्षर उङ्कार ईरितः ।अथेतिहासो व्यासादिरचितो भारतादिकः ॥
अनुष्टुप्
genderपुंmasc.
झर्झरो झल्लरी झल्ली झत्नरी झर्झरीत्यपि ।पणवः प्रणवः पाङ्कः प्राङ्कणः पणवेत्यपि ॥
अनुष्टुप्
genderपुंmasc.
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
ओङ्कारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
ध्रुवस्तारस्तथौङ्कारो मूलज्योतिः शिवोऽव्ययः ।वेदाद्यस्तारकोऽव्यक्तः शाखादिः प्रणवः स्मृतः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ॐकारो वर्तुलस्तारो बिन्दुशक्तिस्त्रितत्त्वकम् ।प्रणवश्चन्द्र साद्यश्च पञ्चदेवो ध्रुवस्त्रिकः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
प्रणवो विषबीजं स्यात् ध्रुवं हालाहलं स्मृतम् ।कालः श्रुतिमुखं ज्ञेयं बहुरूपि निरञ्जनम् ॥प्रणवम्॥
अनुष्टुप्
genderपुंmasc.
प्रयुक्तं धारणाद्येतत्त्रयमेकत्र संयमः ।ओंकारः प्रणवस्तारस्तारकं सर्वविन्मतिः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
प्रणव as a meaning in nānārtha verses
- धरणिकोश उरोष्टलटौ प्रमादवाग्दोषौ पटो वस्त्रप्रियाल[21]योः । उरोष्टः प्रणवे क्षीरे कृपीटमुदरे जले । अवटौ खिलभूगर्तौ पर्पटौ पिष्टकौषधी ॥ Dharaṇikośa 10.1.6
- कोषकल्पतरु परमआदौ प्रधाने परमः परस्मिन् विशेष्यवत्स्यात्प्रणवे तु षण्ढे । आदौ प्रधाने प्रथमोऽन्यवत्स्यात् पुष्पे फलेऽस्त्री कुसुमं दृगार्तौ ॥ ८७ ॥ Koṣakalpataru 6.25.87
- नानार्थार्णवसंक्षेप तारत्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे । प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.525
- नानार्थार्णवसंक्षेप प्रसरपारम्पर्यप्रसङ्गेऽपि प्राणिनां गर्भमोचने । प्रेरणे प्रसृतौ चाथ प्रसरः प्रणवे स्मृतः ॥ १३३ ॥ Nānārthārṇavasaṃkṣepa 3.2.133
- नानार्थार्णवसंक्षेप अक्षरपरमाणौ ब्रह्माणि च प्रणवे तु नृशण्डयोः । त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 4.7
- शब्दरत्नावली ओम्मा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- तन्त्राभिधान उउः शिवः प्रणवं विष्णुर्दक्षकर्णोऽमरेश्वरः । ऊ-रर्घीशो वामकर्णः कथितो मधुसूदनः ॥ ४ ॥ Tantrābhidhāna 1.4
- तन्त्राभिधान ओंओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिको ह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा । श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिः स्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥ Tantrābhidhāna 1.32
- त्रिकाण्डशेष ओम्ही विस्मये प्रमोदे च ओमेवं प्रणवार्थयोः । युक्तार्थे चाधुनार्थे च साम्प्रतं तद्विदो विदुः ॥ ४६६ ॥ Trikāṇḍaśeṣa 3.3.466
- वैजयन्ती प्राणप्राणस्तु प्रणवे जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे च बलान्तर्यामिणोरापि ॥ ३८ ॥ Vaijayantī 6.1.38
- वैजयन्ती अक्षरअक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ । धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥ Vaijayantī 7.5.3