कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सदागति

sadāgatiपुं · masc.

In 18 kośas: 20 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.9 · p. 1
सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः ।सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ ७ ॥पपीः सदागतिः पीतुः सांवत्सररथः कपिः ।दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ ८ ॥वेदादयः खतिलकः प्रत्यूषाण्डं सुरावृतः ।लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.33 · p. 4
आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः ॥ ९९ ॥अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती ।वायौ चरणपोऽपि द्रुस्त्वक्त्वचा स्तबके पुनः ॥ १०० ॥गुलुञ्छुलुम्बी माकन्दरसालावपि चूतवत् ।
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.43
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.76 · p. 10
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.29 · p. 68
युजिनो लघुटो घातिर्दैत्यदेहः सदागतिः ।शुषिर्महाबलो वेगी नभोजातो घनान्तकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.39 · p. 69
मृतण्डः सविता भानुः स्वर्णरेता दिवाधिपः ।मार्तण्डः पद्मिनीकान्तः चक्रवर्ती सदागतिः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.122 · p. 19
शुषिर्महाबलो वेगी नभोजातः सदागतिः ।प्राणोपानः समानश्चोदानव्यानौ च वायवः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.4 · p. 380
पृषदश्वो गन्धवहो जगत्प्राणः समीरणः ।सदागतिर्गन्धवाहो निःपावश्चाशुगोऽनिलः ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.31 · p. 409
अहिर्बुध्न्योऽथ पूषाऽपि कुबेरोऽथ सदागतिः ।दस्रादथ यमोऽग्निश्च विधाता त्वष्टमस्ततः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.7 · p. 436
प्रद्योतनो विश्वकर्मा दृग्भूर्भातुः सदागतिः ।सहस्रात्करपादांशुश्चित्रार्थार्चिः सुरः पपीः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.153 · p. 23
मरुन्-मरुत-मारुत-श्वसन-गन्धवाहानिलाःसमीर-समिराशुग-क्षिपणवोऽङ्कतीश्चाञ्चतिः ।समीरण-सदागती वहति-शुक्षि-वाताहतिर्-नभस्वति महाबलः पवन-धूक-वीकाभृमिः ॥ १५३ ॥
पृथ्वी
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 62 · p. 32
पवनः पवमानश्च वायुर्वातोऽनिलो मरुत् ।समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.17 · p. 53
स्पर्शनश्च हरिः प्रोक्तः पवमानसदागती ।स झञ्झा वृष्टियुक् प्रोक्तः व्यानस्त्वङ्मात्रसंस्थितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वायुभानुः Pañcatattvaprakāśa 5.328 · p. 23
नभस्वाननिलो वातः पवमानः सदागतिः ।मातरिश्वा जगत्प्राणः पृषदश्वोऽग्निसख्यभृत् ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.102 · p. 12
सदागतिर्जगत्प्राणो नभस्वान्पवनोऽनिलः ।श्वसनः पवमानश्च पृषदश्वः प्रकम्पनः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वायुकायनामानि Suśīlanāmamālā 5.4.1941 · p. 319
अङ्कतिः क्षिपतिश्चापि नित्यगतिः सदागतिः ।शीतलो जलकान्तारः स्पर्शनो जलभूषणः ॥ १९४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.150 · p. 11
पृषदश्वो मातरिश्वा समीरः पवनानिलौ ।खश्वास आशुगो बाहो धूलिध्वजः फणिप्रियः ।मरुत्वातिर्नभः प्राणो भोगिकान्तः सदागतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 4, syllable 3 ध्व (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.127 · p. 17
सदागतिर्गन्धवहो नभस्वानग्निसारथिः ।प्राणापानव्यानोदानसमानाः शरीरगाः पवनाः ॥ १२७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.50 · p. 13
शुष्मिर्महाबलो वेगी नभोजातः सदागतिः ।नभस्वान् मारुतः शीघ्रः पृषदश्वः प्रकम्पनः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.15 · p. 18
चण्डांशुरंशुमानंशुः सहस्रांशुः सदागतिः ।आदित्यो मिहिरो मित्रो रविः प्रत्यूषडंबरः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.67 · p. 78
अभिशस्तिर्याच्ञायामभिशापे च कीर्तिता ।सदागतिः स्मृतो वाते सदागतिः सदीश्वरे ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्ति (syllables merged); pāda 4, syllable 3 ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.73 · p. 228
सदागतिः स्यात्पवने सदीशेखगे हिमारातिरिहानलेऽर्के ।पदाप्तिवार्तागुरुताप्रबोध-प्रागल्भ्यकेषु प्रतिपत्तिरुक्ता ॥ ७३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.654 · p. 82
अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् सदागतिः ।वायौ सूर्ये च सादीनि पूर्ववद्व्रुवते पुनः ॥ ६५४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.175 · p. 226
सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे ।सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च ।सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च ।समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)