कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्योकार

vyokāraपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.789 · p. 36
व्योकारः कर्मारो लोहकारः कूटं त्वयोघनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्मा (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.7
पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.16 · p. 203
कुरटो लोहकारस्तु व्योकारोप्यथ मुष्टिकः ।स्वर्णपर्यायतः कारस्तालो गोजिक इत्यपि ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.18 · p. 296
व्योकारो लोहकारः स्यात्कर्मारो लोहघातकः ।गुहेरोऽथास्त्रियां कूटमयोघनक इत्यपि ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.429 · p. 155
वासी तु तक्षणी तुल्ये क्रकचं करपत्रकम् ।पाषाणदारणष्टङ्को व्योकारो लोहकारिणि ॥ ४२९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.59 · p. 40
वर्धकिः स्थपतिस्तक्षा रथकारश्च काष्ठतक् ।व्योकारो लोहकारश्च शस्त्रमार्जोऽसिधावकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1507 · p. 247
कर्मारो लोहकारश्च व्योकारो लोहकर्मकृत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मऽ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.11 · p. 153
कर्मकारस्तु कर्मारो व्योकारो लोहकारके ।नाडिन्धमो रुक्मकारः कलादः स्वर्णकारकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1524 · p. 184
आस्फोटनी वेधनिका व्योकारो लोहकारकः ।कर्मारः स्यादयस्कारो भस्त्रा चर्मप्रसेविका ॥ १५२४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.16 · p. 137
नाडिन्धमः स्वर्णकारः कलादो मौष्टिकः समाः ।कर्मारः स्यादयस्कारो व्योकारो लोहकारकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.