वासी
vāsīस्त्री · fem.In 9 kośas: 9 synonym verses.
वृक्षभित्तक्षणी वासी क्रकचं करपत्त्रकम् ॥ ९१८ ॥
अनुष्टुप्
genderस्त्रीfem.
वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् ।करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वतन्त्रः कौटतक्षोऽथ वासी वाशी च तक्षणी ।वृक्षभित्क्रकचस्त्वस्त्री करपत्रकमन्तिमे ।अयानयीनः शारा स्याद्द्वयोः साफलयौलिगः ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
वासी तु तक्षणी तुल्ये क्रकचं करपत्रकम् ।पाषाणदारणष्टङ्को व्योकारो लोहकारिणि ॥ ४२९ ॥
अनुष्टुप्
genderस्त्रीfem.
तक्षणी वृक्षभिद्वासी तस्यास्त्रं येन छिद्यते ॥ १५५१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वासिर्वासी तक्षणी स्यात् कुङ्गचक्रभ्रमिः स्त्रियाम् ।स्याल्लोहप्रतिमा स्थूणा शूर्मी च शूर्मिकेत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderस्त्रीfem.
पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् ।वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥ ३४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ख (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
genderस्त्रीfem.
वारित्रा मूर्धखोलञ्च सैव पत्रपिशाचिका ।वासी तु तक्षणी न स्त्री क्रकचः पत्रदारकः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वधितिर्ना कुठारोऽक्ली वासी स्याद्दारुतक्षणी ।क्रकचोऽस्त्री करपत्रं स्वधितिः कर्त्तनः समौ ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderस्त्रीfem.