कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भस्त्रा

bhastrāस्त्री · fem.

In 11 kośas: 15 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.908 · p. 36
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ॥ ९०८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.56
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.67 · p. 209
स्त्रियामावर्त्तनी चाथ भस्त्राका भस्त्रिका पुनः ।प्रसेविका सेविका च चर्मणो वारिपूरणी ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.27 · p. 463
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.70 · p. 278
भेद्यवत्सर्वचर्मीणं दृतिर्भस्त्रा च खल्वकः ।प्रसेवकः पुमानत्र द्वयोश्चर्मप्रसेविका ॥भूते दृत्यां कलस्यां च दार्त्तेयं कालशेयवत् ।चर्मणो जलपात्रे स्यादालूः करकपात्रिका ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.67 · p. 102
genderस्त्रीfem.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.422 · p. 154
चर्मप्रसेविका भस्त्रा विशिष्यैव विभाव्यताम् ।वेधिन्यास्फोटिनी तुल्ये शाणे तु निकषः कषः ॥ ४२२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.55 · p. 217
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.608 · p. 104
चित्रकाद्युपसामग्र्यामिषीका तूलिका मता ।चर्मप्रसेचका(वको?) भस्त्रा भस्त्रिका भस्त्रिरित्यपि ॥ ६०८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1531 · p. 243
चर्मप्रसेविका भस्त्रा प्रोक्तश्चर्मप्रसेवकः ।आस्फोटनी वेधनिका मौक्तिकछेदशस्त्रकम् ॥ १५३१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.58 · p. 157
भस्त्राका भस्त्रका भस्त्रा भस्त्री चर्मप्रसेविका ।आस्फोटनी वेधनिका वेधनीत्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1524 · p. 184
आस्फोटनी वेधनिका व्योकारो लोहकारकः ।कर्मारः स्यादयस्कारो भस्त्रा चर्मप्रसेविका ॥ १५२४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2314 · p. 281
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.72 · p. 16
स्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः ।योनौ वायौ च भस्त्रा तु वह्निध्मानदृतावपि ॥ ७२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.73 · p. 16
भेदे सप्तदशस्तोमविच्युतेरिषुधावपि ।भक्तिर्भागे सेव्यमाने लक्षणायां च सेवने ॥ ७३ ॥
अनुष्टुप्
doubtful