तक्षन्
takṣanपुं · masc.In 15 kośas: 15 synonym verses, 2 as a nānārtha head word, 15 as a meaning of another word.
रथकृत्स्थपतिस्त्वष्टा काष्ठतड्तक्षवर्धकी ॥ ९१७ ॥
अनुष्टुप्
genderपुंmasc.
तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् ।
अनुष्टुप्
genderपुंmasc.
आभीरः स्यान्महाशूद्रो गोपालो वल्लवस्तथा ।त्वष्टा च काष्ठतट् तक्षा रथकारश्च वर्धकिः ॥ ५८७ ॥
अनुष्टुप्
genderपुंmasc.
मणिकारो नैकटिको रथकारस्तु वर्द्धकिः ।काष्ठतट् स्थपतिस्त्वष्टा तक्षाथ ग्रामगृह्यके ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नै (wrong syllable)
genderपुंmasc.
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।स्थपतिर्ग्रामतक्षस्तु ग्रामाधीनो हि वर्धकिः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
शाङ्खिकः स्यात्काम्बविकः शौल्बिकस्ताम्रकुट्टकः ।तक्षा त्वष्टा वर्धकी च रथकारश्च काष्ठतट् ॥ ५७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable)
genderपुंmasc.
वर्धकिः स्थपतिस्तक्षा रथकारश्च काष्ठतक् ।व्योकारो लोहकारश्च शस्त्रमार्जोऽसिधावकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
रथकृत् रथकारश्च तक्षा त्वष्टा च वर्द्धकिः ॥ १५४९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्वष्टा तु वर्धकिस्तक्षा सूत्रधारोऽपि वर्धकी ।रथकारो रथकरः काष्टतट् काष्टतक्षकः ॥
अनुष्टुप्
genderपुंmasc.
तक्षा तु करणाज्जातो माहिष्याद्वैणवस्तथा ।आयोगवाच्चर्मकारो मागधात्ताम्रजीवकः ॥ १५१६ ॥
अनुष्टुप्
genderपुंmasc.
तक्षा तु वर्धकिस्त्वष्टा स्थपती रथकारकः ।कौटतक्षोऽनधीनः स्याद् ग्राभतक्षोऽन्वितार्थक्रः ॥ १५२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्थ (wrong syllable)
genderपुंmasc.
आयोगवस्तैजसकृद्भ्रमकृन्मणिवेधकृत् ।स तक्षा तक्षणाज्जीवन् स्थपतिर्नगराधिकृत् ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
विष्ण्वग्रजे माध्यमिकदेवे दिनकरे च ना ।त्रि तु त्वक्षितरि स्यात् तु तक्षा ना वर्धकौ स तु ॥ ५१५ ॥
अनुष्टुप्
meaningsवर्धकि
विप्रीकरणजे मर्त्यजातिभेदे द्वयोस्तथा ।आयोगवे च वृत्तिश्चेत् तक्षणं तस्य ना पुनः ॥ ५१६ ॥
अनुष्टुप्
तक्षन् as a meaning in nānārtha verses
- धरणिकोश सूतसूतः क्षत्राद्ब्राह्मणीजे तक्ष्णि सारथिबन्दिनोः । लिप्तं च लेपिते भुक्ते लिप्तोऽथ विषदिग्धके ॥ Dharaṇikośa 15.2.7
- धरणिकोश रथकाररथकारस्तु माहिष्यात्करणीजे च तक्षणि । अलंकारो विभूषायां ग्रन्थभेदे च कीर्तितः ॥ Dharaṇikośa 26.2.79
- कोषकल्पतरु मयभयं तु घोरे कथितं च भीतौ कुब्जप्रसूनेऽथ मयस्तथोष्ट्रे । स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तु संश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥ Koṣakalpataru 6.26.4
- कोषकल्पतरु रथकारपादूकरे चर्मकरौषधौ स्त्री माहिष्यतः स्यात्तनये करण्याः । तक्षण्यपि स्याद्रथकार आद्ये भटे समे च प्रतिकार उक्तः ॥ ११ ॥ Koṣakalpataru 6.27.11
- नानार्थार्णवसंक्षेप त्वष्टृतप्ता स्याद्भास्करे पुंसि भेद्यलिङ्गं तु तापके । त्वष्टा प्रजापतौ वह्नौ देवतक्षणि तक्षणि ॥ ५१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.514
- नानार्थार्णवसंक्षेप सूतपारदे द्वे तु तक्ष्णि स्याद् वन्दिन्यपि पठन्त्यमुम् । ब्राह्मण्यां क्षत्त्रियाज्जाते जनिते तु त्रिषु स्मृतः ॥ १५३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1537
- नानार्थार्णवसंक्षेप स्थपतिवज्रे कुठारे स्थपतिः पुनः स्यात् सोविदल्लके । तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 3.2.240
- नानार्थार्णवसंक्षेप तक्षकतप्तावथ पुमान् सर्पराजभेदे हि तक्षकः । तक्ष्णि चाथो तक्षितरि त्रिस्त्वक्सारस्तु पुंस्ययम् ॥ ८२५ ॥ Nānārthārṇavasaṃkṣepa 4.825
- नानार्थार्णवसंक्षेप स्थपतिवज्रे कुठारे स्थपतिः पुनः स्यात् सौविदल्लके । तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 6.240
- परमानन्दीयनाममाला तक्षकतक्षको भुजगे तक्ष्णि तरणी रविबेडयोः । तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥ Paramānandīyanāmamālā 5.15.230
- परमानन्दीयनाममाला सूतसूनुर्द्रुमेऽनुजे पुत्रे सौम्यो धिष्ण्ये बुधेऽपि च । सूतस्तु पारदे तक्ष्णि मागधे सारथावपि ॥ ३६२ ॥ Paramānandīyanāmamālā 5.27.362
- शब्दरत्नावली सूतसूतः स्याद्वाहनणक्षत्रसुतपारदयोरपि । प्रसूते प्रेरिते तक्ष्णि नन्दिसारथिवन्दिषु ॥ Śabdaratnāvalī 7.16.68
- शब्दरत्नाकर त्वष्टृडिम्भः प्लीह्नि खगापत्ये ढक्कावाघे सरित्यपि । धुतक्ष्णि तक्ष्णि च त्वष्टा तालस्तु नरके द्रुमे ॥ १९२८ ॥ Śabdaratnākara 4.1.1928
- वैजयन्ती त्वष्टृतर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि । मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥ Vaijayantī 6.1.25
- वैजयन्ती स्थपतिस्थापत्येऽधिपतौ तक्ष्णि बृहस्पतिसवी च यः । समाधिर्ध्याननीवाकप्रतिज्ञासु समर्थने ॥ ८१ ॥ Vaijayantī 7.1.81