क्रकच
krakacaपुंक्ली · m. n.In 15 kośas: 17 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
वृक्षभित्तक्षणी वासी क्रकचं करपत्त्रकम् ॥ ९१८ ॥
अनुष्टुप्
genderक्लीneut.
क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥
metre not recognised
genderपुंक्लीm. n.
प्रासो निगदितः कुन्तो मुद्गरो द्रुघणः स्मृतः ।क्रकचं करपत्त्रं स्यात्परिघः परिघातनः ॥ ४७५ ॥
अनुष्टुप्
genderक्लीneut.
वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् ।करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥ ७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यात्पद्मरागायुगरुद्योगशृङ्गारयोस्ततः ।टङ्गस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
करीरो ना मृदुफलः क्रकरः क्रकचोऽस्त्रियाम् ।शाकपुष्पो गूढपत्रस्तीक्ष्णसारो हुताशनः ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्वतन्त्रः कौटतक्षोऽथ वासी वाशी च तक्षणी ।वृक्षभित्क्रकचस्त्वस्त्री करपत्रकमन्तिमे ।अयानयीनः शारा स्याद्द्वयोः साफलयौलिगः ॥ २५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
वासी तु तक्षणी तुल्ये क्रकचं करपत्रकम् ।पाषाणदारणष्टङ्को व्योकारो लोहकारिणि ॥ ४२९ ॥
अनुष्टुप्
genderक्लीneut.
पिण्याकझर्झरकहंसकतण्डकानिमस्तिष्कशङ्खमुखपुङ्खनखाधिकाङ्गाः ।उद्योगटङ्गयुग [संयुग?] पद्मरागाःशृङ्गं भगः क्रकचकूर्चनिदाघकुञ्जाः ॥ १३३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
वृक्षादो वृक्षभेदी स्याद् टङ्कः पाषाणभेदके ।करपत्रे तु दावित्रं क्रकचः क्रच इत्यपि ॥ ६१० ॥
अनुष्टुप्
genderपुंmasc.
क्रकचं करपत्रकं काष्ठादेस्तु विदारके ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्र (wrong syllable)
genderक्लीneut.
पाषाणदारणः टङ्कः शिलाकुटुर इत्यपि ।क्रकरक्रकचावस्त्री करपत्रं नपुंसकम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
फलकोऽस्त्री फलं चर्म खेटकः क्षुद्रचर्मणि ।मुष्टौ मण्डुकसंग्राहौ क्रकचः करपत्रकम् ॥ १३५० ॥
अनुष्टुप्
genderपुंmasc.
वारित्रा मूर्धखोलञ्च सैव पत्रपिशाचिका ।वासी तु तक्षणी न स्त्री क्रकचः पत्रदारकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
अथ वर्धकिहस्तः स्याद्द्विचत्वारिंशदंगुलः ।तस्मिन्विकिष्कुः क्रकचः किष्कुः क्राकचिकोऽपि च ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
स्वधितिर्ना कुठारोऽक्ली वासी स्याद्दारुतक्षणी ।क्रकचोऽस्त्री करपत्रं स्वधितिः कर्त्तनः समौ ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंक्लीm. n.
क्रकचो ग्रन्थिलवृक्षेकरपत्रे स्यात्तु संकोचम् ।काश्मीरे नरि मीने ।बन्धेऽथो लोहबाणे स्यात् ॥ ११ ॥
metre not recognised
कालिङ्गस्तु गजे सर्पे क्रकचः करपत्रके ।ग्रन्थिलद्रौ कठोरेऽथ कणीचिः शकटे स्मृतः ॥ १२६ ॥
अनुष्टुप्
कवचः पर्पटे नन्दिपादपे गूढपत्रके ।त्रकचो गूढपत्रे स्यात्क्रकचा तु हलीमके ॥ १०१ ॥
अनुष्टुप्
meaningsगूढपत्र
प्रपञ्चोऽपि च विस्तारे सञ्चरे नवतोरणे ।क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यद्रुमे पुमान् ॥
अनुष्टुप्
क्रकच as a meaning in nānārtha verses
- कोषकल्पतरु वातरायणकलिवृक्षे रोमाञ्चे भवति तथा रोमहर्षणं क्लीबे । निष्फलपुंस्युन्मत्ते क्रकचे कीडे( ? )च कूटे च ॥ ७० ॥ Koṣakalpataru 6.15.70
- कोषकल्पतरु कुररदीने तथा स्यात्क्रकचेऽथ बाल- पत्रे सिते स्यात्कदरो गदेऽपि । कार्पासिकायां बदरं च कोल्यां फले तयोर्बादरमीरितं ज्ञैः ॥ ९५ ॥ Koṣakalpataru 6.27.95
- नानार्थार्णवसंक्षेप कदररोगक्रकचयोश्चाथ कटभेदे कटोलवाक् । तथा वादित्रभेदे च कर्कारस्तु महीरुहे ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 3.2.70
- नानार्थार्णवसंक्षेप क्रकरमर्त्यजात्यन्तरे तु द्वे पुल्कसीशूद्रसम्भवे । क्रकरस्तु करीरद्रौ दीनक्रकचयोश्च ना ॥ ३६२ ॥ Nānārthārṇavasaṃkṣepa 4.362
- शब्दरत्नावली कृकरउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59
- त्रिकाण्डशेष कदरकन्दरः स्याद्गुहास्मृण्योः कोट्टारौ कूपनागरौ । कदरः क्रकचे रोगे कदरः खदिरे सिते ॥ ३४१ ॥ Trikāṇḍaśeṣa 3.3.341