कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सावन

sāvanaपुं · masc.

In 7 kośas: 10 synonym verses, 4 as a nānārtha head word.

गणितनाममाला Gaṇitanāmamālā · हरदत्त चतुर्विधमाससंज्ञा Gaṇitanāmamālā 16.80 · p. 5
मासो दर्शावधिश्चान्द्रसौरोऽर्कराशिचारतः ।सावनो दिनत्रिंशद्भिर्नाक्षत्रश्चंद्रभास्क्रमात् ॥ ८० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable); pāda 3, syllable 5 न (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.7 · p. 406
त्रिंशांशस्तिथ्यवच्छन्नो यावदृक्षं च सावनः ।सौरो दैवस्तथैवार्क्षश्चाथ योगाः क्रमादमी ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.54 · p. 411
मासस्तु दिनमालोमा वर्षार्थात्कोश इत्यपि ।अंशः श्रामश्चतुर्द्धासः सावनस्तु दिनैर्नगैः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.78 · p. 414
अथ भेदा वत्सराणामतुलैः (३६०) सावनो भवेत् ।दिवसैर्मातुलैः (३६५) सौरश्चान्द्रः स्याद्विमलै(३५४)र्दिनैः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.78 · p. 48
त्रिंशद्दिनः सावनः स्यान्नाक्षत्रो भगणक्रमात् ।असंक्रमोऽधिमासोऽसौ पापः षण्ढो मलिम्लुचः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.99 · p. 51
शतत्रयात्षष्ट्यधिकाद्दिनानामेष सावनः ।चतुःपञ्चाशदधिकत्रिशत्याह्नां स ऐन्दवः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.271 · p. 19
मासाश्चतुर्विधाश्चान्द्रसौरनाक्षत्रसावनाः ।शुक्लप्रतिपदादिस्तु दर्शान्तश्चान्द्र उच्यते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.273 · p. 19
त्रिंशता दिवसैरेव सावनः परिकीर्तितः ।चान्द्रोऽपि द्विविधो ज्ञेयो गौणमुख्यविभेदतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.246 · p. 33
चान्द्रः सौरः सावनश्च नाक्षत्रश्च चतुष्टये ।मासौ चैत्रादिकौ द्वौ द्वावृतुरेते तु षट् समाः ॥ २४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.81 · p. 23
ज्यौतिषः पुनराचारात् सावनो दिनसंख्यया ।आग्रहायणिको मार्गशीर्षो वर्षमुखः सहाः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.47 · p. 253
स्यात्सावनो मासविशेषय[15b]ष्टृ-यज्ञक्रियान्तेषु च याजिनि स्यात् ।विज्ञानमुक्तं किल बोधकृत्योः ।प्रज्ञानमुक्तं धियि लाञ्छनेऽपि ॥ ४७ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1949 · p. 217
त्रि तु सामसमुद्भूते सावनस्तु पुमानयम् ।संवत्सरविशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1950 · p. 217
सवनस्य तु सम्बन्धिन्येष त्रिः सहिते तथा ।अवनेनाथ सामुद्रमब्धिसम्बन्धिनि त्रिषु ॥ १९५० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.96 · p. 242
सावनः क्रतुकर्मान्ते यजमाने प्रचेतसि ।साधनं दापने सैन्ये शिश्ने च गमने धने ॥तथा निर्वर्त्तनोपायमृतसंस्कारयोरपि ।समे वेदान्तरोपायभेदयोरपि न द्वयोः(?) ॥
अनुष्टुप्