कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यष्टृ

yaṣṭṛपुं · masc.

In 12 kośas: 11 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.817 · p. 33
श्रोत्रियश्छान्दसो यष्टा त्वादेष्टा स्यान्मखे व्रती ।याजको यजमानश्च सोमयाजी तु दीक्षितः ॥ ८१७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.14
यष्टा च यजमानश्च स सोमवति दीक्षितः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.420 · p. 48
यष्टा च यजमानः स्यादादेष्टा दीक्षितो व्रती ।इज्याशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ४२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.62 · p. 75
उद्गाता स्यात्सप्तपञ्चचतुर्भिस्तद्गुणाः क्रमात् ।यष्टा तु यजमानः स्यादादेष्टा त्वध्वरे व्रती ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.31 · p. 234
यजमाने यष्टा यह्वो दस्मो याजकृदुक्थशाः ।सोमयाजी दीक्षितः स्याद्दीक्षिता तत्क्रतुव्रती ॥ ३१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.122 · p. 23
षट्कर्माणि महायज्ञो ब्रह्मयज्ञादिपञ्चकम् ।यष्टा तु यजुरादेष्टा यजमानश्च होत्रवित् ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1361 · p. 216
आदेष्टा च व्रती यष्टा यजमानश्च याजकः ।एतन्नामानि कथ्यन्ते यज्ञकर्तरि पुंसि वै ॥ १३६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.15 · p. 111
यष्टा च यजमानश्च व्रती स्यात् यज्ञकर्तरि ।स कर्ता सोमयागे चेत् दीक्षितः परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.299 · p. 213
कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः ।यष्टाऽथ सोमपे सोमा सोमात्पीती पीथी च नान्तगौ ॥ २९९ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1173 · p. 144
सोमयाजी क्रतौ यष्टा यजमानश्च दीक्षितः ।सोमपाः सोमपीथी स्याच्चितवानग्निमग्निचित् ॥ ११७३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.76 · p. 89
यष्टा तु यजुरादेष्टा यजमानश्च होत्ववत् ।सोमे तु दीक्षितः सोत्वो यज्वा स्यादिष्टवानसौ ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.

यष्टृ as a meaning in nānārtha verses

  • कोषकल्पतरु होतृक्षत्राङ्गनायां वृषलाच्च जाते तथा भुजिष्याभवनन्दनेऽपि । होता तु ऋत्विग्भिदि यष्टरि स्यात् पोतापि ऋत्विग्भिदि केशवे च ॥ ३९ ॥ Koṣakalpataru 6.16.39
  • कोषकल्पतरु स्थपतिचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
  • कोषकल्पतरु सावनस्यात्सावनो मासविशेषय[15b]ष्टृ- यज्ञक्रियान्तेषु च याजिनि स्यात् । विज्ञानमुक्तं किल बोधकृत्योः । प्रज्ञानमुक्तं धियि लाञ्छनेऽपि ॥ ४७ ॥ Koṣakalpataru 6.21.47
  • कोषकल्पतरु ऊमभद्रे लब्धकरक्षणे निगदितं स्याच्चौरकेऽथ स्त्रियां गौर्यां स्याद्गणहासके च, नगरे तूमं तथा घट्टके । सूर्ये यष्टरि पुंसि, शुष्ममुदितं तेजस्यशीतद्युतौ ना स्यूमस्तु मयूखसूत्रगुणयोर्दक्षे क्षमः क्षन्तरि ॥ ५९ ॥ Koṣakalpataru 6.25.59
  • कोषकल्पतरु दस्मवक्रे च मन्दे परवच्च सूक्ष्मं त्वध्यात्मके कैतवके च षण्ढे । अणौ पुमान्स्यात्त्रिषु चाल्पवाचि दस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥ Koṣakalpataru 6.25.69
  • नानार्थार्णवसंक्षेप याजकस्याद्यष्ट्टयाजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः । कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥ Nānārthārṇavasaṃkṣepa 4.1468