स्वच्छ
svacchaपुं · masc.In 6 kośas: 7 synonym verses, 2 as a meaning of another word.
हृद्यांशुरंशुरब्जारिरमृतांशुः कलानिधिः ।जयन्तस्तपसः शीतभानुः स्वच्छो यथासुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कुष्ठं विमलं स्वच्छं तारहेमाभमित्यथ ।माणिक्यं शोणरत्नं च तरुणीरत्नमित्यपि ॥ ५९२ ॥
अनुष्टुप्
genderक्लीneut.
तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः ।क्लीबे मुक्ताफलं स्वच्छं बिन्दुरत्नं च मौक्तिकम् ॥ ५९५ ॥
अनुष्टुप्
genderक्लीneut.
अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः ।सूर्यकान्तस्तापनः स्यादपि दीप्तोपलश्च सः ॥ ६०६ ॥
अनुष्टुप्
genderपुंmasc.
चान्द्रश्चन्द्रमणिः स्वच्छो गल्वर्कः स्फटिकोऽस्त्रियाम् ।अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
समीपमार्गे स्वच्छं च प्रान्तरं सुखदं मतम् ।दूरमार्गे महाघोरं कष्टदं कठिनं तथा ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
अथ रोगाद्विमुक्ते स्यातुल्लाघः स्वच्छ इत्यपि ।ग्लानो ग्लास्नुः रोगात् क्षीणशरीरे द्वितयं भवेत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
genderविadj.
स्वच्छ as a meaning in nānārtha verses
- परमानन्दीयनाममाला प्लक्षप्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः । पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥ Paramānandīyanāmamālā 5.19.302
- शब्दरत्नावली तलिनजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56