जयन्त
jayantaपुं · masc.In 22 kośas: 29 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
इन्द्राणी पौलोमी शची जयन्तश्च तत्सुतो ज्ञेयः ।अमरावती च नगरी नन्दनमुद्यानमिन्द्रस्य ॥ ५५ ॥
आर्या
genderपुंmasc.
पौलोमी तु शचीन्द्राणी भोगिनी सुरसुन्दरी ।जयन्तः स्याज्जयरथो देवसेनानुजश्च सः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
हृद्यांशुरंशुरब्जारिरमृतांशुः कलानिधिः ।जयन्तस्तपसः शीतभानुः स्वच्छो यथासुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
जयो जयन्तो जयतो यागसन्तान इत्यपि ।देवसेना तस्य सुता जयन्ती च गुहप्रिया ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
genderपुंmasc.
व्योमपर्यायकेशार्थः पशुपर्यायतः पतिः ।घस्रो जयन्तो गिरिशो मृडो भीष्मो महेश्वरः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीदेहार्द्धोऽहिपर्यङ्को जटापर्यायवानपि ।कोलो नरार्थादाधारो जयन्तश्चापराजितः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
गौरीगङ्गाकृत्तिकाग्निपर्यायेभ्यः सुतार्थकः ।द्वादशाक्षो जयन्तोऽपि महातेजाश्च शक्तिभृत् ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसो हरिः ।ग्रहनेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
अडुतालस्ततो रास एकताली क्रमादिमे ।जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
एते भार्ये रवेरश्वाः सप्तच्छन्दांसि यानि ते ।जयो जयन्तो विजयो जयत्सेनो जयद्वलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
पुमाञ्जयन्तश्च सुतानुताविषीस्याद्देवसेना तविषी जयन्ती ।कसोदरैरावण-मल्लनागास्-तथाऽभ्रनागोऽभ्रमुवल्लभश्च ॥ १०३ ॥
upajati mixed
genderपुंmasc.
जयन्ते मोहनः स्वामी नलकूबरवल्लभः ।उच्चैःश्रवसि दिव्याश्वो नीलवालः स हंसकः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
जयन्तोऽथ सुता तस्य जयन्ती ताविषी च सा ।हयश्चोच्चैःश्रवा द्वाःस्थो नन्दी सारथिरप्यथ ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
मातलिर्माकलिः शित्रो देवसारथिराशुगः ।जयन्तो विजयो मोदी सुन्दरः सुखलोलुपः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
पुलोमतनयेन्द्राणी शची सुरपतिप्रिया ।जयन्तः शक्रतनयः शक्रपूरमरावती ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
सुतस्तस्य जयन्तः स्याज्जयोऽपि च निगद्यते ।अस्योद्यानं नन्दनं स्यात्प्रासादस्तु पताकिका ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
सुतो जयन्तः प्रासादो वैजयन्तोऽमरावती ।पुरी सभा सुधर्मा च मातलिः सारथिर्हरेः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
जयन्तो जयदत्तश्च सुता तु तविषी पुनः ।जयन्ती तविषी तिस्रो हय उच्चैःश्रवा महान् ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
कृशानुरेता विश्वेशः सर्वज्ञो नीललोहितः ।रुद्रः स्थाणुः स्मरहरो जयन्तस्त्रिपुरान्तकः ॥
अनुष्टुप्
genderपुंmasc.
जयो जयन्तो जयनित्यस्य कन्या च ताविषी ।जयन्ती देवसेना च मातङ्गोऽभ्रमुवल्लभः ॥
अनुष्टुप्
genderपुंmasc.
शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची ।सचिर्वासवौ जयन्तः जयदत्तो जयस्तथा ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
genderपुंmasc.
ऊर्ध्वधन्वाथ तज्जाया शचीन्द्राणी पुलोमजा ।पूतक्रतायी सैव स्यात् पुरीन्द्रस्यामरावती ।पुत्रो जयन्तः प्रासादो वैजयन्तोऽशनिर्ध्वजः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
स्थिरो जयन्तो जयजः शूली च चतुराननः ।मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सदाशिवः स्थिरा शूली जयन्तश्चतुराननः ।जनको जयजो वाममणिबन्धगतो ज-कः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कण्ठेकालजयन्तगुह्यगुरवो जोतिङ्गगोपालकौपिङ्गाक्षः कटमर्दरेवतजटाटङ्काव्ययाः कूटकृत् ।चन्द्रापीडमहानटौ च शमिरो हः शैलधन्वा जटा-चीरोऽथर्वणनन्दिवर्धनगुडाकेशाग्रकालञ्जराः ॥ ४४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
उडुपः पर्वधिः क्लेदो जयन्तस्तपसो हरिः ।तारापीडः खचमसो विकसः सिन्धुनन्दनः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वृषण्वसु धनाद्यस्य पुराजः शान्तिकर्मकृत् ।सुतो जयो जयन्तश्च जयदत्तोऽप्यथो सुता ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
स्याच्चक्रवर्तिनीसंज्ञे प्रोक्ता च स्थावरान्तरे ।जयन्तस्तु पुमानिन्द्रपुत्रे स्त्री तु जयन्त्यसौ ॥ ७७० ॥
अनुष्टुप्
meaningsइन्द्रपुत्र
कात्यायन्यामिन्द्रपुत्र्यां तर्कार्यां तिथिभेदके ।त्रिस्तु जेतर्यथो जीर्णे जरणं क्ली च हिङ्गुनि ॥ ७७१ ॥
अनुष्टुप्
meaningsजेतृ
doubtful
जयन्ती सुतागौर्य्यौः पताका वृक्षभेदयोः ।जयन्तः स्यादिन्द्रपुत्रे भीमे च त्रिपुरान्तके ॥
metre not recognisednearly अनुष्टुप्
जयन्त as a meaning in nānārtha verses
- धरणिकोश ऐन्द्रिकृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः । ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥ Dharaṇikośa 26.1.10
- कोषकल्पतरु वैजयन्तअश्मप्रभेदे नरि चन्द्रकान्तो- ऽन्त्ये कैरवेऽथो नरि वैजयन्तः । गुहे जयन्तेऽरणिवृक्ष धूका नाकेशकन्यासु भवेत्स्त्रियां सः ॥ ६५ ॥ Koṣakalpataru 6.17.65
- कोषकल्पतरु जयजयो जयन्ते विजये नरि स्या- ज्जया भवान्यामरणिद्रुमे च । तिथेर्विशेषे गिरिजासखीषु हरीतकीनामसु च प्रदिष्टः ॥ २ ॥ Koṣakalpataru 6.26.2
- कोषकल्पतरु ऐन्द्रिद्यूतेऽद्रयस्तु द्रुमशैलसूर्या ऐन्द्रिर्जयन्तेऽपि च वायसे च । शद्रिर्गजाम्भोधरजिष्णुवाची निद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥ Koṣakalpataru 6.27.74
- शब्दरत्नावली जयजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली ऐन्द्रिऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7