ग्लास्नु
glāsnuवि · adj.In 10 kośas: 10 synonym verses.
आमयाव्यपटुर्ग्लानो ग्लास्नुर्विकृत आतुरः ।व्याधितोऽभ्यमितोऽभ्यान्तो दर्द्रुरोगी तु दर्द्रुणः ॥ ४५९ ॥
अनुष्टुप्
genderविadj.
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥
अनुष्टुप्
genderविadj.
अभ्यान्तः सामयो मन्द आतुरो ग्लास्नुरित्यपि ।तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ॥ ३५८ ॥
अनुष्टुप्
genderविadj.
उपदंशो गुह्यरोगोऽथावमन्थः कफास्रजः ।अन्तर्मुखी सूचिमुखीत्याद्या योनिगदाः पृथक् ।ग्लान-ग्लास्नू त्वामयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तो रुग्ण * * * * * * ॥ ७५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
आतुरो विकृतो ग्लास्नुग्लानौ व्याधित आमयी ।दर्द्रुणो दर्द्रुरोगी स्यात्कच्छुरः पामनः समौ ॥ १२२ ॥
अनुष्टुप्
genderविadj.
ग्लौ(ग्ला?)स्नुश्चाभ्यमितो रोगी विकृतोऽपटुरित्यपि ।पामनः कच्छुरश्चैव चर्चिकारोगसंगते ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
आतुरो रोगितो ग्लानो व्याधितोऽभ्यमितोऽपटुः ।विकृत आमयावी स्यादभ्यान्तो ग्लास्नुरेव च ॥ ७०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderविadj.
अथ रोगाद्विमुक्ते स्यातुल्लाघः स्वच्छ इत्यपि ।ग्लानो ग्लास्नुः रोगात् क्षीणशरीरे द्वितयं भवेत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
genderविadj.
आर्तामयाविरुग्णग्लास्नव उल्लाघ आमयान्मुक्तः ।कल्यो निरामयो वार्तो वातरोगी तु वातकी ॥ १०९९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
आमयावी समौ ग्लास्नुग्लानौ पामनकच्छुरौ ।वातार्शोदद्रुमन्तः स्युर्वातलार्शसदद्रुणाः ॥ १४५ ॥
अनुष्टुप्
genderविadj.