कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तापन

tāpanaपुं · masc.

In 11 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.98 · p. 7
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
ते च मूर्धन्यषे आहुः केचित्तालव्यशे अपि ।सूरः शूरोऽपि (सुरोऽपि?) सूर्ये स्यात् तपनस्तापनस्तथा ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.606 · p. 200
अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः ।सूर्यकान्तस्तापनः स्यादपि दीप्तोपलश्च सः ॥ ६०६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.3 · p. 436
तापनस्तपनो विष्णुः कर्मसाक्षी विकर्त्तनः ।मार्त्तण्डो मिहिरो भानुर्हंसो वेदोदयः पुनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.33 · p. 11
उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.28 · p. 29
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 11 · p. 467
तपनस्तापनो रविः ॥ ११ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.32 · p. 4
हृच्छयः कमनः कन्तुर्जराभीरुश्च तच्छराः ।मोहनोन्मादनौ शोषणश्च तापनमारणौ ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.81 · p. 13
अर्कः पूषा पतङ्गश्च खगः प्रद्योतनस्तथा ।तपनस्तापनः सूरः विवस्वान् मिहिरोऽरुणः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.234 · p. 17
अहर्पतिर्ग्रहपतिः पद्मबन्धुर्विरोचनः ।ज्योतिष्मानव्यथेशस्तु तपनस्तापनोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.5 · p. 177
तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः ।भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 33 · p. 533
हेलिर्हंसं सहस्रांशुस्तपनस्तापनो रविः ॥ ३३ ॥
genderपुंmasc.