कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · वैश्यादिप्रकाण्डः (6/6)

बुधरत्नं बालवायो रत्नमुख्यस्तु हीरकः ।अस्त्रियां वज्रपर्यायनामाभेद्यो शिरोऽपि च ॥ ६०१ ॥
1.7.601 · p. 199
अनुष्टुप्
सूचीमुखश्च षट्कोणो दृढरत्नं वरारकः ।श्वेतादिवर्णैर्विप्राद्या वर्णाः स्युः क्रमशोस्य तु ॥ ६०२ ॥
1.7.602 · p. 199
अनुष्टुप्
पुमान्नीलं सौरिरत्नं नीलाश्मा नीलरत्नकः ।स्वर्भानवस्तु गोमेदः सचोत्तममणिः पुनः ॥ ६०३ ॥
1.7.603 · p. 199
अनुष्टुप्
वैदूर्यं केतुरत्नं स्यात् प्रावृषं वालवायजम् ।माणिक्यमभ्रलोहं च पिचं चापि विदूरजम् ॥ ६०४ ॥
1.7.604 · p. 199
अनुष्टुप्
अभ्रलोहश्चाङ्कुरेऽथ गोमेदो वालवायजः ।बृहस्पतिमणिश्चाथ स्फटिकस्तु सितोपलः ॥ ६०५ ॥
1.7.605 · p. 199
अनुष्टुप्
अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः ।सूर्यकान्तस्तापनः स्यादपि दीप्तोपलश्च सः ॥ ६०६ ॥
1.7.606 · p. 200
अनुष्टुप्
अग्निगर्भोऽथ वैक्रान्तो विक्रान्तो नीचवज्रकः ।गोनासो गोनसः क्षुद्रवज्रोऽथो संस्रवोपलः ॥ ६०७ ॥
1.7.607 · p. 200
अनुष्टुप्
इन्दुकान्तः सिताश्मा स्यादथावर्त्तमणिः पुनः ।राजावर्त्तस्तथावर्त्तः पेरोजो हरिताश्मके ॥ ६०८ ॥
1.7.608 · p. 200
अनुष्टुप्
पद्मरागः शौक्तिकेयं विद्रुमो गरुडोद्भवः ।पुष्परागो वज्रमभि नीलो गोमेदको वृषः ॥ ६०९ ॥
1.7.609 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
विदूरजोऽपि रव्यादि ग्रहाणां मणयः क्रमात् ।अथ लोहितको वज्रस्तथा नीलमहोपलः ॥ ६१० ॥
1.7.610 · p. 200
अनुष्टुप्
मुक्ता मरकताद्यानि महारत्नानि सर्वतः ।विदूरजः प्रबालोऽपि गोमेदः पुष्परागकः ॥ ६११ ॥
1.7.611 · p. 200
अनुष्टुप्
इत्यादीन्युपरत्नानि प्रवदन्ति मनीषिणः ।मधूली स्त्री मधु क्लीबे पवित्रं पितृदैवतम् ॥ ६१२ ॥
1.7.612 · p. 200
अनुष्टुप्
पुष्पपर्यायासवार्थस्तद्भेदाः स्युः क्रमादमी ।माक्षीकं माक्षिकं तत्स्यात्तैलाभमथ भ्रामरम् ॥ ६१३ ॥
1.7.613 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 थ (wrong syllable)
विहितं भ्रमरैः स्वल्पैः श्वेतं स्यात्क्षौद्रकं तु तत् ।वर्णेन कपिलं चाथ पीताभिः परिनिर्मितम् ॥ ६१४ ॥
1.7.614 · p. 200
अनुष्टुप्
पैतिकं घृतवर्णं तदपरं पुत्तिकाकृतम् ।पौत्तिकं स्यात् सारघं तु छात्रं तदपि पिङ्गलम् ॥ ६१५ ॥
1.7.615 · p. 201
अनुष्टुप्
यदार्घ्यमपि पिङ्गं स्यादावन्त्यमपरे जगुः ।क्षवकं चाथ मधुकवृक्षपुष्परसैश्चितम् ॥ ६१६ ॥
1.7.616 · p. 201
अनुष्टुप्
जरत्कार्वाश्रमभवं जगुरन्ये मधूत्तमम् ।कुद्दालं स्वर्णसदृशं प्रायो वल्मीकमध्यगम् ॥ ६१७ ॥
1.7.617 · p. 201
अनुष्टुप्
तच्च भूकृत्तिकन्दालं पत्रोपरिभवं तु यत् ।जलप्रसरणं तैलं चिक्कणं वह्निवल्लभम् ॥ ६१८ ॥
1.7.618 · p. 201
अनुष्टुप्
दीपाहारः पुमान् स्नेहश्चाथ तद्योनयः क्रमात् ।तिलसर्षपकौसुम्भ क्षुमा खस्खस तूवरी ॥ ६१९ ॥
1.7.619 · p. 201
अनुष्टुप्
राजिकैरण्डनिर्गुण्डी करजेङ्गुदचित्रिका ।निम्बाक्षशिग्रुकोशाम्राभयाङ्कुल्लमधूलिकाः ॥ ६२० ॥
1.7.620 · p. 201
अनुष्टुप्
राजादनं नारिकेलः कर्पूरं त्रपुसं तथा ।ईर्वारुरपि कर्कारुः कूष्माण्डालाबु चेत्यपि ॥ ६२१ ॥
1.7.621 · p. 201
अनुष्टुप्
ज्योतिष्मती तिलादीनां स्वस्वपर्यायजं क्रमात् ।तिलजं सर्षपोद्भूतं तैलं च सार्षपं क्रमात् ॥ ६२२ ॥
1.7.622 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
उन्नेयमेवं धीमद्भिर्मधूच्छिष्टं तु मादनम् ।मधुजं विघसं सिक्थं द्रवकं मक्षिकाश्रयः ॥ ६२३ ॥
1.7.623 · p. 201
अनुष्टुप्
मधुशेषं पीतरागं मधूत्थं मक्षिकामलः ।अपि स्निग्धं मधुलको मधुशेषोऽपि न स्त्रियाम् ॥ ६२४ ॥
1.7.624 · p. 202
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ।षष्ठः प्रकाण्डो वैश्याख्यः सम्यक् सिद्धिमुपागतः ॥ ६२५ ॥
1.7.625 · p. 202
अनुष्टुप्