कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हण्डे

haṇḍeअ · indecl.

In 10 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.334 · p. 17
नीचाचेटीसखीहूतौ हण्डेहञ्जेहलाः क्रमात् ॥ ३३४ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.15
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५ ॥
अनुष्टुप्
genderअindecl.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.154 · p. 80
आर्यभ्राता क्षुल्लतोत देवरस्त्वार्यपुत्रकः ।हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५४ ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.87 · p. 426
भोगिनी त्वपरैरन्या क्षुल्लैर्गोस्वामिनीति सा ।हण्डे हण्डा द्वयं नीचे हञ्जा हञ्जे च चेटिकाम् ॥ ८७ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.52 · p. 80
सेनान्तं नाम[51b] वेश्यानां दत्तान्तं वणिजामिदम् ।हण्डे हञ्जे अव्यये द्वे नीचां चेटीं प्रति क्रमात् ॥ ५२ ॥
metre not recognised
genderअindecl.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.161 · p. 22
निष्ठायां स्यान्निर्वहणं संहारस्तु समापने ।स्यान्नीचचेट्याह्वाने तु हञ्जे हण्डे हलेति च ॥ १६१ ॥
अनुष्टुप्
genderअindecl.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.162 · p. 23
हञ्जे हण्डे चेतिशब्दावव्ययौ स्त्री हलेति सा ।स्यादङ्गुल्यादिविन्यासे त्वङ्गहार इतीष्यते ॥ १६२ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.491 · p. 61
अज्जुका चाऽर्जुका चैव कथिताः गणिकाः किल ।नीचा चेटी सखी हूतौ हण्डेहञ्जेहलाः क्रमात् ॥ ४९१ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.133 · p. 188
चेटी-नीचा-सखीह्वाने हण्डे हञ्जे हलाव्ययाः ।अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता ॥ १३३ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.954 · p. 119
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति ।शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.108 · p. 144
आर्यभ्राता क्षुल्लतातो देवरस्त्वार्यपुत्रकः ।हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १०८ ॥
अनुष्टुप्
genderअindecl.