अङ्गहार
aṅgahāraपुं · masc.In 15 kośas: 15 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
तालः कालक्रियामानं लयः साम्यमुदाहृतम् ।अङ्गहारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गहारोऽङ्गविक्षेपो नानाकरणसंहृतिः ।करणान्यङ्गचेष्टाः स्युः कर्हणं गर्हणं च तत् ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि प्राङ्नाट्यकं क्लीबे क्रियासूचकमस्त्रियाम् ।अङ्गहारोऽङ्गहारिश्च व्यञ्जकाभिनयौ समौ ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गहारोऽङ्गविक्षेपोऽङ्गाहारिस्तु स्त्रियां भवेत् ।प्रसह्योर्ध्वीकृतः पादो दण्डपादोऽभिधीयते ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
हञ्जे हण्डे चेतिशब्दावव्ययौ स्त्री हलेति सा ।स्यादङ्गुल्यादिविन्यासे त्वङ्गहार इतीष्यते ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गहार्यङ्गविक्षेपश्चाङ्गभङ्ग इति त्रयम् ।व्यञ्जकोऽभिनये प्रोक्तश्चतुर्धा परिगीयते ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
नर्तनं नाटकं नृत्यं लास्यं नाट्यं च ताण्डवम् ।अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो लयः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो भवेत् ।चतुर्विधानि नामानि प्रथितानि च यथाक्रमाम् ॥ ४०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रथि (syllable split)
genderपुंmasc.
स्थानात् स्थानान्तरं प्राप्तौ अङ्गानाञ्चारुनर्तने ।अङ्गहारोऽङ्गविक्षेपो द्वयमत्र निगद्यते ॥
अनुष्टुप्
genderपुंmasc.
नाट्यं नटनमङ्गविक्षेपेऽङ्गाद्धारि-हारकौ ।आतोद्ये वाद्यं वादित्रं, तूरं तूर्यं च वल्लकी ॥ ११२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्ग (wrong syllable); pāda 3, syllable 5 द्यं (wrong syllable)
genderपुंmasc.doubtful
सत्त्ववागङ्गभावानां व्यञ्जकोऽभिनयः पुमान् ।अङ्गहारोऽङ्गविक्षेपो मुखं(ख)संध्यादि पञ्चकम् ॥ ९४७ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गहारस्त्वङ्गहारिः ॥ ६२ ॥
genderपुंmasc.
सत्त्वाद्भावस्ततो हावो लीला हावात्समुत्थिता ।अंगहारोंऽगविक्षेपो नानाकरणसंहतिः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वृक्षभेदेऽग्निमथनेऽप्यङ्गहारस्तु नृत्यताम् ।अङ्गविक्षेपणेऽङ्गस्य हरणेऽथो अलम्बुसः ॥ ३१ ॥
अनुष्टुप्
अङ्गहार as a meaning in nānārtha verses
- कोषकल्पतरु विच्छित्तिप्रवाहवृत्तान्तगता प्रवृत्ति- रथाङ्गहारे रमणीविलासे । छेदेऽपि विच्छित्तिरथानुभूतौ संवित्तिरुक्ता विजनाविवादे( ? ) ॥ ३९ ॥ Koṣakalpataru 6.16.39