कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अन्तिका

antikāस्त्री · fem.

In 14 kośas: 16 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1018 · p. 40
चालनी तितउः शूर्पं प्रस्फोटनमथान्तिका ।चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ॥ १०१८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.48
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ।
अनुष्टुप्
genderस्त्रीfem.
सानेयिका स्यात् सानेयी सानिका सा च कथ्यते ।वंशी च वंशिका तल्ये अन्तीकाप्यन्तिरन्तिका ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.98 · p. 143
तथा चुल्लिरपि ज्ञेया तद्वत्साधिश्रयण्यपि ।अन्तिकाथ हसन्ती तु हसन्यङ्गारधानिका ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.84 · p. 426
राजा भट्टारको देवः कुमारो भर्तृदारकः ।भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.85 · p. 426
आर्त्तिका चान्तिकान्ताम्बा स्यादन्तिश्चाप्यतः पुनः ।देवो देवी भृत्यजनैर्वाच्योऽयमृषिभिर्द्विजैः ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.8 · p. 461
क्ष्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ ।गृह्या शाखापुरे प्रान्तेऽन्तिका कीला रताहते ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.50 · p. 80
आवुकः स्यात्पितावुत्तो भावुको भगिनीपतिः ।ज्यायानार्यः प्रसूरम्बाथान्तिका चान्तिका स्वसा ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 276
आ*[पू]पिकः कान्दचिको भक्ष्यकार इमे त्रिषु ।अथान्तिका चुल्लिरधिश्रयणी मूलकारिका ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.35 · p. 98
गृह्या तु शाखानगरेऽथ चुल्ल्यांस्यादन्तिका यब्धिहतौ च कीला ।रज्जौ च रश्मिः स्थिरमस्थिरं वाङ्याबूङ्विरामं कि*शिंशपाद्याः ॥ ३५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.40 · p. 215
शल्यवाद्यभिदोः क्ष्वेडा वारिः स्त्री गजबन्धभूः ।अश्मन्ते त्वन्तिकारण्यानी यवानी हिमान्यपि ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.160 · p. 22
स्याद्वासूर्बालिका चार्ये मार्षो मारिष इत्यपि ।अत्तिका चान्तिका ज्येष्ठभगिन्यां परिकीर्तिता ॥ १६० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1751 · p. 285
अन्तिकाऽश्मन्तकं चाऽन्ती तथाऽधिश्रयणी किल ॥ १७५१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.60 · p. 141
चुल्ली चुल्लिरन्तिकाधिश्रयण्यश्मन्तिकापि च ।अश्मन्तास्मन्तमुद्धानमुध्नानमपि कीर्त्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल्लि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.133 · p. 188
चेटी-नीचा-सखीह्वाने हण्डे हञ्जे हलाव्ययाः ।अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.54 · p. 163
वातायनं गवाक्षश्च रसवत्यां महानसम् ।उद्धानमश्मन्तमधिश्रयणी चुल्लिरन्तिका ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास कश्लोकः Dharaṇikośa 1.3.15 · p. 17
अन्तिका नाट्यतो ज्येष्ठस्वसा चुह्लिरपि स्मृता ।अन्तिकं तु समीपे स्यात्सामीप्ये च प्रयुज्यते ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.68 · p. 52
वियोगे विधुरे तु त्रिर्योगहीनेऽपि लोहगे ।अन्तिका तु स्त्रियां चुल्ल्यां समीपे भेद्यलिङ्गिका ॥ ६८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.29 · p. 178
चुल्ली ज्येष्ठभगिन्योश्च नाट्टोक्तौ कथ्यतेऽन्तिका ।अलर्को धवलार्के स्यात् योगोन्मादितकुक्कुरे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.3 · p. 92
अन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका ।अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्