कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paryāyaśabdaratna

पर्यायशब्दरत्न Paryāyaśabdaratna

981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)

ऊर्ध्वलोकसर्गः (2/2)

सत्तारा रात्रिजं बिन्दु काम्यं कीरमुडुर्नना ।दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ १२१ ॥
1.121 · p. 17
अनुष्टुप्
राधा रधा विशाखायां रोहिण्यां रोहिणी मता ।कृत्तिकायां तु कृत्तिः स्यात्कार्तिकेति च गीयते ॥ १२२ ॥
1.122 · p. 17
अनुष्टुप्
ग्रहायणी मृगशिरो मृगशीर्षे मृगोऽपि च ।स्त्रीक्लीबयोर्मृगशिरा रोहिणी च पुरातना ॥ १२३ ॥
1.123 · p. 17
अनुष्टुप्
चलिता मन्दरा चार्द्रा पूर्ववत्सा पुनर्वसूः ।तथा पुनर्वसुः पुष्य आश्लेषश्च मघस्तथा ॥ १२४ ॥
1.124 · p. 17
अनुष्टुप्
स्त्रियां बहुत्वे च मघा आश्लेषा पुष्यमीति च ।पूर्वाभाद्रा पूर्वभद्रा पूर्वाभद्रा च फल्गुनी ॥ १२५ ॥
1.125 · p. 17
अनुष्टुप्
अप्येवमुत्तरायाश्च चित्रा चित्ता च चित्रिणी ।स्वाती स्त्रीपुंसयोः प्रोक्ता विशाखा विशिखा द्वयोः ॥ १२६ ॥
1.126 · p. 17
अनुष्टुप्
अनूराधा चानुराधा ज्येष्ठा ज्येष्ठश्च चिन्तितः ।मूला मूलं मूलिका च पूर्वाषाढा तु पूर्ववत् ॥ १२७ ॥
1.127 · p. 17
अनुष्टुप्
अनन्तरापि च तथा श्रवणोऽस्त्री श्रवोऽपि च ।स्यातां शतभिषक् स्त्री स्यात्क्षत्वे(त्षान्ते?) पुंसि नपुंसके ॥ १२८ ॥
1.128 · p. 18
अनुष्टुप्
रेवती रेवती रेवेत्येवमूह्यं मनीषिभिः ।शुक्राचार्ये तूशनाः स्याद्गुरौ चित्रशिखण्डिजः ॥ १२९ ॥
1.129 · p. 18
अनुष्टुप्
भूजः कुजो लोहिताङ्गो भौमोऽङ्गारक इत्यपि ।गौरः सौम्यो बुधे शौरिः शौरी सेव्यः शनैश्चरे ॥ १३० ॥
1.130 · p. 18
अनुष्टुप्
पङ्गुमन्दौ शनेर्नाम्नि छायेयोऽसित इत्यपि ।तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ १३१ ॥
1.131 · p. 18
अनुष्टुप्
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
1.132 · p. 18
अनुष्टुप्
कल्यं प्रातरुषः क्लीबे सायं संध्या पितृप्रसूः ।वि(व्यु?)ष्टं विनोदं प्रत्यूषं विभातं भातमेव च ॥ १३३ ॥
1.133 · p. 18
अनुष्टुप्
प्रबोधकं क्रियाकारी सायान्तिकमहर्मुखम् ।विः सुता यामिनी रात्रिर्वासुरा रजनी तमा ॥ १३४ ॥
1.134 · p. 18
अनुष्टुप्
निःशब्दा निष्क्रिया दोषा सूचिनी बोधिनीति च ।लात्रा तमिस्रा च तमी तमस्वी तामसीति च ॥ १३५ ॥
1.135 · p. 19
अनुष्टुप्
कलाहीने सानुमतिः पूर्णे राका निशाकरे ।सा दृष्टेन्दुः शिनीवाली सा नष्टेन्दुकला कुहूः ॥ १३६ ॥
1.136 · p. 19
अनुष्टुप्
उपाहितोऽग्न्युत्पाते स्याद्विषुवद्विषुवं तु तत् ।पुष्पमासे तु पौषी(ष?) स्यान्माघे तु कुसुमाकरः ॥ १३७ ॥
1.137 · p. 19
अनुष्टुप्
फाल्गुने फल्गुनं प्रोक्तं तपस्यः फाल्गुनीककः ।चैत्रमासे मधुर्दिव्यश्चैत्रिको विशदोऽपि च ॥ १३८ ॥
1.138 · p. 19
अनुष्टुप्
वैशाखे घर्मदस्तुण्डी राधो माधव इत्यपि ।ज्येष्ठे प्रसिद्धश्चाषाढे तूत्तमः शुचिरित्यपि ॥ १३९ ॥
1.139 · p. 19
अनुष्टुप्
श्रावणे तु श्रावणिको नभाश्च नभ इत्यपि ।भाद्रे भाद्रपदः प्रोष्ठपदो भाद्रा च सम्मता ॥ १४० ॥
1.140 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रा (wrong syllable)
स्यादाश्विने त्वाश्वयुजः कार्तिके बाहुलोऽपि च ।मार्गशीर्षे सहेतिः स्यादुन्नेया प्रोक्तसंततिः ॥ १४१ ॥
1.141 · p. 20
अनुष्टुप्
हेमन्ते हिमदः प्रोक्तः शिशिरे शीतलः स्मृतः ।वसन्ते सुरभिः प्रोक्तो ग्रीष्मे स्यादूष्मकस्तपः ॥ १४२ ॥
1.142 · p. 20
अनुष्टुप्
वर्षर्तौ प्रावृडित्युक्तो वर्षा इति च कथ्यते ।शरदि स्यात्तु काशालो मार्गादियुगले तु षट् ॥ १४३ ॥
1.143 · p. 20
अनुष्टुप्
समः संवत्सरे प्रोक्तः शरदब्दोऽपि वत्सरः ।संवर्तः प्रलये पापे वृजिनं कलुषं विघम् ॥ १४४ ॥
1.144 · p. 20
अनुष्टुप्
वृषः श्रेयश्च पुण्ये स्यान्मुदे मोदो मदोऽपि च ।सुखे शान्तं(तं?) शर्म नर्म मङ्गले भावुकं मतम् ॥ १४५ ॥
1.145 · p. 20
अनुष्टुप्
भावुकं कुशलं क्षेमं भव्यं भाव्यं शिवं शुभम् ।शस्तं चाथ जनुर्जन्म जनिर्जनन इष्यते ॥ १४६ ॥
1.146 · p. 20
अनुष्टुप्
मतल्लिका स्यादुद्घश्च तल्लजश्च मचर्चिका ।प्रकाण्डमस्त्रियामेते प्रशस्तार्थावबोधकाः ॥ १४७ ॥
1.147 · p. 20
अनुष्टुप्
विशेष्यनिघ्ना व्युत्पन्नाः केचिन्नेति जपन्ति तान् ।बुद्धौ प्रज्ञा धरा ज्ञप्तिर्धीः श्रद्धा विच्चिदित्यपि ॥ १४८ ॥
1.148 · p. 21
अनुष्टुप्
प्रेक्षोपलब्धिः पण्डा संव(वे?)दनं प्रतिदोऽपि च ।सधारणा धीर्मेधा स्यात्तर्केऽध्याहार इष्यते ॥ १४९ ॥
1.149 · p. 21
अनुष्टुप्
संदेहे विचिकित्सा स्यात्संशयद्वापरौ तथा ।संख्या चर्चा विचारे स्याद्व्यापादो द्रोहचिन्तनम् ॥ १५० ॥
1.150 · p. 21
अनुष्टुप्
अङ्गीकारेऽभ्युपगमप्रतिश्रवसमाधयः ।सविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ॥ १५१ ॥
1.151 · p. 21
अनुष्टुप्
शिल्पे शास्त्रे च धीर्ज्ञानं विज्ञानं मोक्षसाधनम् ।मुक्तौ श्रेयोऽहंकृतौ स्यादविद्याज्ञानमित्यपि ॥ १५२ ॥
1.152 · p. 21
अनुष्टुप्
तुवरो रसभेदे स्याद् हृषीकं त्विन्द्रिये मतम् ।विशदो हरिणः श्वेते चेषत्पाण्डुस्तु धूसरः ॥ १५३ ॥
1.153 · p. 21
अनुष्टुप्
पालाशो हरितः पीते श्वेतरक्तस्तु पाटलः ।श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहितौ(ते?) ॥ १५४ ॥
1.154 · p. 21
अनुष्टुप्
कडारः कपिशः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ।चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ॥ १५५ ॥
1.155 · p. 21
अनुष्टुप्
नाट्ये स्त्रीवेषकी पुंसि कचरा गणिकाज्जुका ।स्त्रीवेषधारी पुरुषो यस्तस्मिन्नटनेऽपि च ॥ १५६ ॥
1.156 · p. 22
अनुष्टुप्
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत् ।आवुको जनकेऽपि स्यादावुत्तो भगिनीपतिः ॥ १५७ ॥
1.157 · p. 22
अनुष्टुप्
युवराजे कुमारः स्याद्भर्तृदारक इत्यपि ।राज्ञि देवो देवद(र?)श्च तत्सुता भर्तृदारिका ॥ १५८ ॥
1.158 · p. 22
अनुष्टुप्
अभिषिक्ता तु राज्ञी सा देवीत्यन्या तु भोगिनी ।भट्टिनी त्वपरैरन्या नीचैर्गोस्वामिनीति च ॥ १५९ ॥
1.159 · p. 22
अनुष्टुप्
स्याद्वासूर्बालिका चार्ये मार्षो मारिष इत्यपि ।अत्तिका चान्तिका ज्येष्ठभगिन्यां परिकीर्तिता ॥ १६० ॥
1.160 · p. 22
अनुष्टुप्
निष्ठायां स्यान्निर्वहणं संहारस्तु समापने ।स्यान्नीचचेट्याह्वाने तु हञ्जे हण्डे हलेति च ॥ १६१ ॥
1.161 · p. 22
अनुष्टुप्
हञ्जे हण्डे चेतिशब्दावव्ययौ स्त्री हलेति सा ।स्यादङ्गुल्यादिविन्यासे त्वङ्गहार इतीष्यते ॥ १६२ ॥
1.162 · p. 23
अनुष्टुप्
अङ्गहार्यङ्गविक्षेपश्चाङ्गभङ्ग इति त्रयम् ।व्यञ्जकोऽभिनये प्रोक्तश्चतुर्धा परिगीयते ॥ १६३ ॥
1.163 · p. 23
अनुष्टुप्
वाचिकोऽऽङ्गिक आहार्यः सात्विकश्चेति भेदतः ।उत्साहवर्धनो वीरे शृङ्गारे शुचिरुज्ज्वलः ॥ १६४ ॥
1.164 · p. 23
अनुष्टुप्
करुणायां तु कारुण्यमनुक्रोशो दयापि च ।स्याद्बीभत्से तु विकृतं हास्ये हासो हसोऽपि च ॥ १६५ ॥
1.165 · p. 23
अनुष्टुप्
आश्चर्यमद्भुते चित्रं चाथ दिव्ये भयानके ।स्याद्दारुणं प्रतिभयं भीष्मं घोरं भयकरम् ॥ १६६ ॥
1.166 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 य (wrong syllable)
रौद्रे तूग्रं दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।तिरस्क्रिया तिरस्कारे लीढावज्ञावहेलनम् ॥ १६७ ॥
1.167 · p. 23
अनुष्टुप्
असूर्क्षणं चावमानमवमाननमित्यपि ।सापत्रपान्यतश्चेद्ध्रीः स्वतश्चेत्पत्रपा स्मृता ॥ १६८ ॥
1.168 · p. 23
अनुष्टुप्
अभिध्याने तितिक्षा स्याच्छोके मन्युश्च शुक् स्त्रियाम् ।स्नेहे प्रेमा प्रेम हार्दं सौहार्दं प्रियतेति च ॥ १६९ ॥
1.169 · p. 23
अनुष्टुप्
वीप्सा तर्षश्चाभिलाषे स महान् लालसा द्वयोः ।उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथाः ॥ १७० ॥
1.170 · p. 24
अनुष्टुप्
उपधिः पुंसि दम्भे स्याच्छाठ्ये निकृतिरिष्यते ।क्रीडायां खेलना खेला केलिर्नर्म द्रवः पुमान् ॥ १७१ ॥
1.171 · p. 24
अनुष्टुप्
कुर्दनं चावहित्था स्यादाकाराच्छादने मता ।स्यादाच्छुरितकं हासे रुदिते कृ(क्रु?)ष्टमिष्यते ॥ १७२ ॥
1.172 · p. 24
अनुष्टुप्
स्खलने रिङ्खणं प्रोक्तं रेङ्खणं रङ्खणं मतम् ।संवेशः संनिवेशश्च निद्रायां निद्रणेति च ॥ १७३ ॥
1.173 · p. 24
अनुष्टुप्