कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनुपदिन्

anupadinवि · adj.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.491 · p. 22
प्रणाय्योऽसम्मतोन्वेष्टानुपद्यथ सहः क्षमः ।शक्तः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः श्लथः ॥ ४९१ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.380 · p. 44
अन्वेष्टानुपदी प्रोक्तः प्रतिभूर्लग्नकः स्मृतः ।रोगादुन्मुक्त उल्लाघः कल्यो वार्त्तो निरामयः ॥ ३८० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.41 · p. 218
विवशोऽनिष्टबुद्धिः स्यादीर्ष्यालुः कुहनः पुनः ।स्यादस्थिरे संकुसुको द्वेष्टात्वनुपदीत्यपि ॥ ४१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.46 · p. 16
अथानुपदमन्वेष्टानुपदीत्यथ वातवान् ।वातूलोऽपि च यो वातं सहते न स सम्मतः ॥ ४६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.762 · p. 109
अनुपदी तथाऽन्वेष्टा पश्चाद्गन्तरि मानवे ॥ ७६२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.27 · p. 203
अन्वेष्टा स्यादनुपदी चिद्रूपस्तु सुमानसः ।स्वच्छन्दोऽपावृतः स्वैरी स्वतंत्रो निरवग्रहः ॥ २७ ॥
अनुष्टुप्
genderविadj.