लग्नक
lagnakaपुं · masc.In 13 kośas: 13 synonym verses, 3 as a meaning of another word.
प्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
अन्वेष्टानुपदी प्रोक्तः प्रतिभूर्लग्नकः स्मृतः ।रोगादुन्मुक्त उल्लाघः कल्यो वार्त्तो निरामयः ॥ ३८० ॥
अनुष्टुप्
genderपुंmasc.
सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः ।प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः ॥ ४८६ ॥
अनुष्टुप्
genderपुंmasc.
लग्नकः प्रतिभूर्द्यूतकारकस्तृणमत्कुणः ।द्यूतोस्त्रियामक्षवती दरोदरदुरोदरे ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
दशैकादशिकस्तु स्यादेकादशकृते दश ।यः प्रयच्छेल्लग्नक[126a]स्तु प्रतिभूर्ऋणमत्कुणः ॥ ९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सरकः सरणश्च स्यादनुतर्षणमित्यपि ।धूर्तोऽक्षवेदी(देवी?) कितवो द्यूतकारेऽथ लग्नकः ॥ ६२७ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिभूर्लग्नकः प्रोक्तः प्रतिनिधिर्जनस्य वै ॥ १४७८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
लग्नकः प्रतिभूः पुंसि तुणमत्कु(ण) इत्यपि ।सभीकः सभिकोऽपि स्याद् द्यूतकारक इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
लग्नको लग्नः, षोडशमात्रैः करिष-कार्षकौ ।तुला विंशत्या तु भारो भरश्च शकटीनवत् ॥ ३२६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ल (syllables merged)
genderपुंmasc.
कूटसाक्षी मृषासाक्षी प्रतिभूलग्नकौ समौ ।अर्थिनो वचनं भाषा तत्प्रत्यर्थिन उत्तरम् ॥ १४०० ॥
अनुष्टुप्
genderपुंmasc.
शुण्डापानं मदस्थानं द्यूतकृत्कृष्णकोहलः ।देवसभ्यस्तु सनिको लग्नकस्तृणमत्कुणः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कूटसाक्षी मृषासाक्षी प्रतिभूर्लग्नकोंऽतरः ।अभियोक्ता शिरोवर्ती शिरस्थोऽथाभियुक्तके ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
लग्नक as a meaning in nānārtha verses
- धरणिकोश मध्यभव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे । मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥ Dharaṇikośa 25.2.13
- कोषकल्पतरु आभूनिर्वृति-व्याप्ति-नित्यत्वे प्रतेर्लग्नक आङ्परः । भागागतावधेरैश्ये उद उद्भेदने समः ॥ ९ ॥ Koṣakalpataru 3.5.9
- कोषकल्पतरु मध्यसंख्या विचारे गदिता तथैक- त्वादौ रणे तु प्रथिता द्वयोना । लग्नेऽधमे च त्रिषु मध्यमन्त्ये न्याय्येऽवकाशेऽपि च लग्नकेऽस्त्री ॥ २३ ॥ Koṣakalpataru 6.26.23