प्रणाय्य
praṇāyyaवि · adj.In 11 kośas: 6 synonym verses, 5 as a nānārtha head word.
प्रणाय्योऽसम्मतोन्वेष्टानुपद्यथ सहः क्षमः ।शक्तः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः श्लथः ॥ ४९१ ॥
अनुष्टुप्
genderविadj.
प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः ।भवेदक्षिगतो द्वेष्यः प्रणाय्योऽसम्मतो मतः ॥ ३६६ ॥
अनुष्टुप्
genderविadj.
स्याच्चक्षुष्यस्तु सुभगः स्यात्प्रणाय्यस्त्वसम्मतः ।स्वस्थानस्थः परान्द्वेष्टि यः सगोष्ठश्च उच्यते ॥ ९७ ॥
अनुष्टुप्
genderविadj.
प्रणाय्योऽसम्मतो लोके विरुद्धपथगन्तुकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderविadj.
असम्मतः प्रणाय्यः स्याद्यस्तु स्वस्थानमास्थितः ।परान् द्वेष्टि स गोष्ठश्व ईर्ष्यालुकुहनौ समौ ॥ १८५१ ॥
अनुष्टुप्
genderविadj.
खट्वारूढोविनीतः स्यान्मरालमसृणे समे ।प्राञ्जलः प्रगुणोऽजिह्मः प्रणाय्यः साध्वनिन्दितौ ॥ २६ ॥
अनुष्टुप्
genderविadj.
भुजिण्या प्रैष्यमात्रे स्याद्भुजिष्यश्चानधीनकः ।प्रणाय्योऽसम्मते ख्यातश्चाभिलाषविवर्जिते ॥
अनुष्टुप्
असम्मते च निष्कामे प्रसव्यं पुनरुच्यते ।प्रतिकूलेऽनुकूले च सव्यदक्षिणयोरपि ॥ ३८ ॥
अनुष्टुप्
doubtful
निर्दयः परदोषोक्तिपरे निष्ठुरभाषिणि ।प्रणाय्योऽसम्मतेऽपि स्यादनभिष्वंगवत्यपि ॥ १५ ॥
अनुष्टुप्