कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपदिश

apadiśaक्ली · neut.

In 8 kośas: 8 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.5
क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderक्ली अ
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.54 · p. 375
बुधो बृहस्पतिश्चेति क्रमाद्दिक्पतयो ग्रहाः ।क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.20 · p. 27
आसन्नगमना भानोः सा भवेच्च प्रधूमिता ।रविणाधिष्ठिता दग्धा दिश्यं तु त्रिषु दिग्भवे ॥दिशोऽपत्ये[19a] तु दैशेयोऽन्यदाशान्या भवेत्ककुप् ।क्लीबाव्ययं त्वपदिशं विदिक्प्रदिगिमे समे ॥अन्तरालं विचालं च स्त्रियामभ्यन्तरान्तरे ।त्रिषु मध्ये चक्रवालं मण्डलं च त्रिलिङ्गकम् ॥ २० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.160 · p. 25
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.176 · p. 24
विदिक् त्वपदिशं चैव प्रदिक् च कथ्यते बुधैः ।दिश्यं दिग्भववस्तुन्यपागपाचीनमेवस्यात् ॥ १७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 7 व (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.174 · p. 13
ताम्रकर्णी-शुभ्रदन्ती चाङ्गना चाञ्जनावती ।मध्येदिशो रूपदिशं विदिशञ्च विदिक् स्त्रियाम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.58 · p. 181
विदिक् प्रदिक् चापदिशं प्राक्-प्राचीने समे मते ।अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.155 · p. 21
ऊर्ध्वा ब्राह्म्यथ नागी च नारकी चाधरा ककुप् ।मध्यं दिशोर्विदिक् स्यादपदिशमव्ययनपुंसकयोः ॥ १५५ ॥
अनुष्टुप्metre not read in every line
genderअindecl.