कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भुवःस्कन्धः · साधारणप्रकाण्डः

सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः ।स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥ १ ॥
2.1.1 · p. 369
अनुष्टुप्
सुबलाः पूजिता देवास्त्रिदशाश्च चिरायुषः ।बर्हिःपर्यायवदनपर्याया ऋभवश्च ते ॥ २ ॥
2.1.2 · p. 369
अनुष्टुप्
स्वाहायज्ञसुधानां च पर्यायेभ्योऽशनार्थकाः ।मृत्युपर्यायनञ्पूर्वा दिविद्युनभसः सदाः ॥ ३ ॥
2.1.3 · p. 369
अनुष्टुप्
लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः ।अपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ॥ ४ ॥
2.1.4 · p. 370
अनुष्टुप्
दैत्यदानवकालेयवैरिपर्यायवाचकाः ।त्रिदिवार्थात्स्युरीशाना वयुनाः कामरूपिणः ॥ ५ ॥
2.1.5 · p. 370
अनुष्टुप्
वा पुंसि दैवतान्येवं दृग्विषा देवता स्त्रियाम् ।अपि ते स्युः सुमनस आजानाः कर्मजाश्च ते ॥ ६ ॥
2.1.6 · p. 370
अनुष्टुप्
ऋनामा त्वदितिर्देवपर्यायजननीत्यपि ।आदित्या विश्ववसवस्तुषितानिलभास्वरः ॥ ७ ॥
2.1.7 · p. 370
अनुष्टुप्
महाराजिकसाध्याश्च रुद्रा एषां गणाः क्रमात् ।धाता मित्रोर्यमा पूषा शक्रोंशो वरुणो भगः ॥ ८ ॥
2.1.8 · p. 370
अनुष्टुप्
त्वष्टा विवस्वान्सविता द्वादशो विष्णुरित्यथ ।क्रतुर्दक्षो वसुः कालकामौ च धृतिमानपि ॥ ९ ॥
2.1.9 · p. 370
अनुष्टुप्
मनुजो रोचमानश्च स्यात्पुरूरव आर्द्धवः ।दशकोऽयं गणोऽथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥
2.1.10 · p. 370
अनुष्टुप्
धरः प्रभासः सोमश्च प्रत्यूषश्च वृकोष्टकः ।भुवनो भावनो दक्षः सुजन्यः सुजनः क्रतुः ॥ ११ ॥
2.1.11 · p. 370
अनुष्टुप्
सुवर्णवर्णः प्रसुतो व्यसुतश्चाव्ययो दश ।एकद्वित्रिचतुःपञ्चज्योतिर्द्वित्रीन्द्र इत्यपि ॥ १२ ॥
2.1.12 · p. 370
अनुष्टुप्
तताभिख्यः प्रतिसकृन्मितश्च सम्मितोऽमितः ।ऋतजित्सत्यजिन्मित्रः श्येनजित्पुरुजिदृतः ॥ १३ ॥
2.1.13 · p. 371
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 6 जि (wrong syllable)
अतिमित्रः सुषेणश्च ऋतधामा पराजितः ।वरुणो विधृतो धाता महातेजा विधारणः ॥ १४ ॥
2.1.14 · p. 371
अनुष्टुप्
ध्रुवो मिताशनः शक्तिः क्रीडनोऽन्यादृशो मुनिः ।एतादृगीदृक् शरभो धातुरूपो विराड्गयः ॥ १५ ॥
2.1.15 · p. 371
अनुष्टुप्
अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः ।क्षिपो विमुक्त एकान्नपञ्चाशो गणआनिलः ॥ १६ ॥
2.1.16 · p. 371
अनुष्टुप्
वहः स्यात्प्रोत्संविपरापरिभ्यश्च वहः परः ।एषां तु सप्तसप्तानां सप्तकः सप्तको वहात् ॥ १७ ॥
2.1.17 · p. 371
अनुष्टुप्
आत्मा ह्याशुमतो दक्षो जुषः प्राणस्तथैव च ।हविष्ठश्च गविष्ठश्च नवको भास्वरो गणः ॥ १८ ॥
2.1.18 · p. 371
अनुष्टुप्
प्रद्युम्नो विद्युतः श्वेतो वज्रपक्षो बलाहकः ।शतजिह्वो हिरण्याक्षः कुमुदो विजयाकृतिः ॥ १९ ॥
2.1.19 · p. 371
अनुष्टुप्
सुगन्धिः पूर्णिमासश्च पौर्णमासो यमोऽपि च ।वलाकश्च सुवीरश्च महाराजिकसंज्ञकः ॥ २० ॥
2.1.20 · p. 371
अनुष्टुप्
गणः पञ्चदशोऽथापि नरो नारायणस्ततः ।हंसो नयश्च प्राणश्च मनोग्रहजगद्धितौ ॥ २१ ॥
2.1.21 · p. 371
अनुष्टुप्
हयो वातश्च साध्यानां नवको गण ईरितः ।अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ २२ ॥
2.1.22 · p. 372
अनुष्टुप्
कपर्दी भुवनाधीशो भगः स्थाणुर्वृषाकपिः ।गिरिशो वीरभद्रोऽयं रुद्रैकादशको गणः ॥ २३ ॥
2.1.23 · p. 372
अनुष्टुप्
विद्याधराप्सरोयक्षरक्षोगंधर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ २४ ॥
2.1.24 · p. 372
अनुष्टुप्
विद्याधरास्तु विद्याध्राः कामरूपाः कलाविदः ।जीमूतवाहनाद्यास्ते गन्धर्वेभ्योऽवराः स्मृताः ॥ २५ ॥
2.1.25 · p. 372
अनुष्टुप्
अथाकृत्यः शोभयन्त्य ऊर्ज्यो विकुरयो रुचः ।आप्नुवत्योऽमृतरुचो वेगवत्यश्च भीरवः ॥ २६ ॥
2.1.26 · p. 372
अनुष्टुप्
रोचयन्त्यो बभ्रवश्च भुवश्चेत्यप्सरोगणाः ।स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥ २७ ॥
2.1.27 · p. 372
अनुष्टुप्
स्पर्शानन्दा रतिमदा अपि स्युः सुदयात्मजाः ।उरुवाशिन्युर्वशी स्यादूर्वश्युरुवशी क्वचित् ॥ २८ ॥
2.1.28 · p. 372
अनुष्टुप्
अनुत्तमा सुरूपा च सुकेशी च मनोवती ।मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥ २९ ॥
2.1.29 · p. 372
अनुष्टुप्
क्रतुस्थला घृताची च विश्वाची पूर्ववित्तिका ।पञ्चचूडा सामवती चित्रलेखा च सुप्रभा ॥ ३० ॥
2.1.30 · p. 372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
मिश्रकेशी सुगन्धिश्च विद्युत्स्पर्शा तिलोत्तमा ।अदृश्या लक्ष्मणा क्षेमाप्यसिता रुचिका तथा ॥ ३१ ॥
2.1.31 · p. 373
अनुष्टुप्
सुव्रता च सुबाहुश्च सुबोधा सुवपुस्तथा ।पुण्डरीकानुदारा च सुदारा सुरसा तथा ॥ ३२ ॥
2.1.32 · p. 373
अनुष्टुप्
हेमा सरस्वती कामा कमलाऽपि च सूनृता ।सुमुखा हंसपादा च वासोरी रतिलालसा ॥ ३३ ॥
2.1.33 · p. 373
अनुष्टुप्
इत्याद्यप्सरसो यक्षा मेघवर्णः क्षमाकरः ।यमो दण्डरथो भीमः पद्मचन्द्रश्च मौलिमान् ॥ ३४ ॥
2.1.34 · p. 373
अनुष्टुप्
प्रद्योतो भूतिमान्भव्यः केतुमानथ राक्षसाः ।हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रसुकेशिनौ ॥ ३५ ॥
2.1.35 · p. 373
अनुष्टुप्
नैकषेयो यज्ञहा स्यात्सूर्यो विद्युद्रुधस्तथा ।रसनो व्याल इति चाथापि गान्धर्वको गणः ॥ ३६ ॥
2.1.36 · p. 373
अनुष्टुप्
चित्राङ्गदश्चित्ररथश्चित्रसेनोऽङ्गिराः कलिः ।ऊर्णायुरग्रजः सोम उग्रसेनो हहा हुहुः ॥ ३७ ॥
2.1.37 · p. 373
अनुष्टुप्
हाहा हूहूः पुनरपि केषांचन मतेऽव्ययौ ।केचिद्धोहाहुहू मित्रौ हहाहूहू पुनश्च तौ ॥ ३८ ॥
2.1.38 · p. 373
अनुष्टुप्
विश्वावसुः सूर्यवर्चा नदीचित्रश्च ताम्रकः ।दुराधिश्च शुचिर्हंसस्तृप्तिः पर्जन्य इत्यपि ॥ ३९ ॥
2.1.39 · p. 373
अनुष्टुप्
वृषपर्वा नारदश्च पर्वतश्च नरश्च ते ।समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥ ४० ॥
2.1.40 · p. 374
अनुष्टुप्
अथ किंपुरुषास्ते स्युः किंचित्पुरुषलक्षणाः ।छागाश्चैडकपर्यायमुखपर्यायशब्दिताः ॥ ४१ ॥
2.1.41 · p. 374
अनुष्टुप्
सूच्यास्या वानरास्याश्च पिशाचा नामतो गणाः ।दुःपूरणा विषादाश्च ज्वलनाः कुम्भमात्रकाः ॥ ४२ ॥
2.1.42 · p. 374
अनुष्टुप्
अङ्गारकाः प्रतुण्डाश्च उपवीरा उलूखलाः ।अकर्णाश्चक्रखण्डाश्च पांसवः पात्रपाणयः ॥ ४३ ॥
2.1.43 · p. 374
अनुष्टुप्
स्कन्दनाश्च वितुण्डाश्च विपुलाश्चाथ गुह्यकाः ।महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ ४४ ॥
2.1.44 · p. 374
अनुष्टुप्
मुकुन्दकुन्दनीलाश्च खर्वः सिद्धास्त्वतः पुरः ।सर्वानुभूतिर्गणिमान्मणिभद्रश्च नन्दनः ॥ ४५ ॥
2.1.45 · p. 374
अनुष्टुप्
सुसिद्धः सुमनाः शङ्खः कण्डूतिर्वसुमानपि ।पिङ्गाक्षश्चतुरश्चाथ भूतानां तु गणाः पुनः ॥ ४६ ॥
2.1.46 · p. 374
अनुष्टुप्
विपरीतकरा दान्ताः सर्वज्ञाः सर्वदर्शिनः ।नानाप्रकारवदना नानाबाहुशिरोधराः ॥ ४७ ॥
2.1.47 · p. 374
अनुष्टुप्
चतुष्पथपथाट्टालशून्यालयकृताश्रयाः ।ककुभा तु ककुप्काष्ठा दिग्दिशा हरिता हरित् ॥ ४८ ॥
2.1.48 · p. 374
अनुष्टुप्
सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला ।दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥
2.1.49 · p. 375
अनुष्टुप्
सूर्यार्थादस्तपर्यायाऽथोदीची त्वपराजिता ।इन्द्राग्नियमरक्षोम्बुवायुश्रीदपिनाकिनाम् ॥ ५० ॥
2.1.50 · p. 375
अनुष्टुप्
पर्यायतोऽपि तस्येदमीबन्ताः स्युः क्रमादिमाः ।ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥ ५१ ॥
2.1.51 · p. 375
अनुष्टुप्
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।करिण्योऽभ्रमुः कपिला पिङ्गलानुपमा क्रमात् ॥ ५२ ॥
2.1.52 · p. 375
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
ताम्रपर्णी शुभ्रदन्ती वामना चाञ्जनावती ।रविः शुक्रो मही सूनुः स्वर्भानुर्भानुजो विधुः ॥ ५३ ॥
2.1.53 · p. 375
अनुष्टुप्
बुधो बृहस्पतिश्चेति क्रमाद्दिक्पतयो ग्रहाः ।क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५४ ॥
2.1.54 · p. 375
अनुष्टुप्
विदिशाऽपदिशा काष्ठा चोपदिक् स्यादतः पुनः ।अभ्यन्तरं त्वन्तरालं द्वयोर्मध्यगतं च यत् ॥ ५५ ॥
2.1.55 · p. 375
अनुष्टुप्
दिगैक्ये चक्रवालं तु चक्रवाडं च मण्डलम् ।यथापरेतरा पूर्वा तथा पूर्वेतरापरा ॥ ५६ ॥
2.1.56 · p. 375
अनुष्टुप्
यथोत्तरेतरापाची तथाऽपाचीतरोत्तरा ।अपाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ ५७ ॥
2.1.57 · p. 375
अनुष्टुप्
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं पुनः ।सार्वदिक्कं तु दिश्यं स्यादमूनि त्रिषु तद्वति ॥ ५८ ॥
2.1.58 · p. 376
अनुष्टुप्
यामार्द्धैरष्टभिः सूर्यमीशान्यादिदिशः क्रमात् ।आप्रातः प्रातरारभ्य भुनक्त्यङ्गारिणी च सा ॥ ५९ ॥
2.1.59 · p. 376
अनुष्टुप्
भुक्तोज्झिता भुज्यमाना ज्वलिता चोपधूपिता ।एताः सोपद्रवास्तिस्रः पञ्चान्या निरुपद्रवाः ॥ ६० ॥
2.1.60 · p. 376
अनुष्टुप्
आदित्या वसवो रुद्रा अत्र वैवस्वतेऽन्तरे ।गणास्त्रयश्च देवानां शुचिरिन्द्र इति क्रमः ॥ ६१ ॥
2.1.61 · p. 376
अनुष्टुप्
आजानाः कर्मजनुषः सर्वे देवगणा इति ।कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके ।साधारणः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥ ६२ ॥
2.1.62 · p. 376
अनुष्टुप्