विधवा
vidhavāस्त्री · fem.In 16 kośas: 16 synonym verses, 12 as a meaning of another word.
पतिवत्नी जीवत्पतिर्विश्वस्ता विधवा समे ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
रण्डाऽपि विधवा पुष्पवती स्यात्पुष्पिताऽपि च ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
विश्वस्ता विधवा प्रोक्ता पुष्पहीना च निष्कला ।श्रमणा भिक्षुकी मुण्डा वयस्याली सखी स्मृता ॥ ४८७ ॥
अनुष्टुप्
genderस्त्रीfem.
वृषस्यन्ती कामुकाथ प्रज्ञा प्राज्ञी च धीमती ।कात्यायन्यर्द्धवृद्धा स्याद्विश्वस्ताविधवे समे ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
अवीरा निष्पतिसुता विश्वस्ता-विधवे समे ।रण्डा च ताडपत्री च भवेदनलकापि सा ॥छत्रभङ्गस्तु वैधव्यं सौभाग्यं जीवभर्तृता ।कामुकी तु वृषस्यन्ती त्रिगर्ता कामुका परा ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
वयस्या तु सखी सध्रीच्याली जीवत्पतिः पुनः ।पतिवत्नी तथा रण्डा विश्वस्ता विधवा समाः ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कामुकीच्छा[युक्ता] स्याद्वृषस्यन्ती नरान्तरा ।अवीरा निष्पतिसूता विश्वस्ता विधवाऽधवा ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च्छा (syllables merged); pāda 3, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
genderस्त्रीfem.
अधवा विधवा रण्डा कथ्यते मृतस्वामिनी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
genderस्त्रीfem.
वयःप्राप्ताऽनपत्या चेत् अशिश्वी स्यादशिश्विका ।विधवा जनिका रण्डा विश्वस्ता यतिनी यतिः ॥
अनुष्टुप्
genderस्त्रीfem.
याता माता स्वसा भार्या नारी नप्रीतिपादिका ।दूती ननान्दा विधवा योनिः श्रोणिः सभा वृषी ॥
अनुष्टुप्
genderस्त्रीfem.
धर्षिणी कुलटा बन्धक्यसती पांसुला च सा ।विश्वस्ता विधवा रण्डा जातापत्या प्रसूतिका ॥ १०४४ ॥
अनुष्टुप्
genderस्त्रीfem.
विश्वस्ताविधवे तुल्ये विशस्तापतिनी च सा ॥ १३७ ॥
genderस्त्रीfem.
विरक्ता दुर्भगा सप्तपुत्रसूः सुतवस्करा ।पतिव्रतैकपत्नी स्याद्विधवा जालिका मता ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
पतिवत्नी जीवपतिर्विश्वस्ता विधवाथ सा ।कात्यायनी द्वितीयं चेद्वयः काषायमंबरम् ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जी (wrong syllable)
genderस्त्रीfem.
विधवा as a meaning in nānārtha verses
- धरणिकोश विश्वस्ताविश्वस्तो विश्वासयोग्यो विश्वस्ता विधवा मता । आस्फोतश्चार्कपर्णे स्यादास्फोता वनमालिका ॥ Dharaṇikośa 15.2.56
- नानार्थार्णवसंक्षेप रण्डाना तु शब्दे परे त्वाहुरतिशब्देऽपरे पुनः । नृशण्डमविशेषेण रण्डा तु विधवस्त्रियाम् ॥ १०८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1087
- नानार्थार्णवसंक्षेप विश्वस्ताविधवायां शाश्वतस्तु त्रिषु विश्वासयोग्यके । विपन्नस्तु द्वयोः सर्पे भेद्यवत् तु विपद्गते ॥ १७११ ॥ Nānārthārṇavasaṃkṣepa 4.1711
- शब्दरत्नावली जालिकाजालकं कोरके नीडे दम्भे जाले समूहके । न पुंसि मोचके फले जालिका विधवा स्त्रियाम् ॥ Śabdaratnāvalī 7.1.76
- शब्दरत्नावली रण्डारण्डा स्त्री विधवायां स्यान्मूषीपर्ण्यामपि स्त्रियाम् । रोडस्तृप्तो वाच्यलिङ्गः क्षते तृप्तो भवेत्पुमान् ॥ Śabdaratnāvalī 7.13.24
- शब्दरत्नावली यतिमृतं मृत्यौ याचिते स्यात्क्लीबं मृत्युमति त्रिषु । यतिः स्त्रीपाठविच्छेदविधवारोगसन्धिषु ॥ Śabdaratnāvalī 7.16.40
- शब्दरत्नावली विश्वस्ताविश्वस्ता विधवायां स्याज्जातविश्वासके त्रिषु । विद्यत् त्रिषु निष्प्रभे स्यात्सन्ध्याचपलयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.16.136
- शब्दरत्नावली क्षौमआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली ऋषभीऋषभः स्वरभेदे स्यादष्टवर्गोषधान्तरे । कर्णरन्ध्रे च कुम्भीरपुच्छे धर्मे वृषेऽपि च ॥ पुमानुत्तरभाक्श्रेष्ठे नराकारस्त्रियां स्त्रियाम् । विधवायां शिरालायां पूकशिम्ब्यामृषभ्यपि ॥ Śabdaratnāvalī 7.24.9
- त्रिकाण्डशेष रण्डाराहौ दैत्यान्तरे मुण्डो मूर्ध्न्यस्त्री मुण्डिते त्रिषु । रण्डा स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि ॥ ११६ ॥ Trikāṇḍaśeṣa 3.3.116
- त्रिकाण्डशेष विश्वस्तावर्तने विवृतौ वृत्तिर्वर्तिदीपदशास्वपि । लाभसम्बन्धयोर्व्याप्तिर्विश्वस्ता विधवापि च ॥ १८३ ॥ Trikāṇḍaśeṣa 3.3.183
- वैजयन्ती रण्डाप्रचारे श्रवणे पड्क्तौ रंडा स्यात् विधवापि च । रुचिः कान्त्यर्चिषोर्भासि तिंत्रिडीके स्पृहाश्रियोः ॥ ३१ ॥ Vaijayantī 6.2.31