कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विन्दु

vinduवि · adj.

In 10 kośas: 12 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.349 · p. 18
वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.30
ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.27 · p. 23
गतार्त्तवा निःकला स्याद्विन्दुर्नश्यत्प्रसूतिका ।अवीरा निःपतिसुता स्यादशिश्वी शिशुं विना ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.64 · p. 221
शरणार्थ्यभिपन्नः स्यात्सान्द्रः स्निग्धश्च मेदुरः ।ज्ञाता तु विदुरो विन्दुर्वेदिताथ नमस्यितः ॥ ६४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.56 · p. 350
पृषन्ति विन्दु पृषतः पुमांसो विप्रुषः स्त्रियाम् ।तीर्थोऽस्त्रियां पुंसि घट्टः स्नानपानावतारके ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.15 · p. 2
ज्ञाता तु विदुरो विन्दुर्यथाजातस्तु बालिशः ।देवानांप्रिय-मूर्खाज्ञ-मूढ-वैधेय-पामराः ॥ १५ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.15 · p. 103
लोहलोऽव्यक्तवाचि स्यान्मूकोऽवागस्वरः समः ।विदुरो वेदिता विन्दुर्वन्दारुः स्तुतिकर्तरि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.654 · p. 111
भूष्णुर्भविष्णुर्भविता विकासी स्याद्विकस्वरः ।ज्ञाता तु विदुरो विन्दुः सान्द्रस्निग्धस्तु मेदुरः ॥ ६५४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.516 · p. 65
अथाऽसौम्यस्वरो लोके कथ्यतेऽस्वर एव हि ।त्रिदुरो वेदिता चैवं कथ्यते विन्दुरित्यपि ॥ ५१६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.45 · p. 39
द्वौ पुंसि विन्दुपृषतौ पृषन्तिर्विप्रुषः स्त्रियाम् ।पृषदित्यपि पुंसि स्यादिति केचित् प्रचक्षते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.37 · p. 161
क्षिप्नुर्निराकरिष्णौ स्यात् विकासिनि विकस्वरः ।वेदिता विदुरो विन्दुर्ज्ञाता ज्ञानसमन्विते ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.43 · p. 204
वेदिता विदुरो विन्दुः सान्द्रः स्निग्धस्तु मेदुरः ।आशंसुराशंसितरि वन्दारुरभिवादकः ॥ ४३ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1258 · p. 150
विप्रुड्वाचिनमोष्ठ्यादिबिन्दुशब्दं च विभ्रमात् ।एकं मत्वा द्वयोरर्थौ विन्दुर्ज्ञातरि विप्रुषि ॥ १२५८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.5 · p. 229
वन्दा तु भिक्षुकी वन्द्यालताभेदेष्वपि स्त्रियाम् ।विन्दुर्दन्तक्षतभिदि भ्रूमध्ये प्रकृतावपि ॥रूपकार्थे ज्ञानशीले पृषति च पुमानयम् ।वाच्यलिङ्गो वेदितव्ये भन्दं(?) मङ्गलशर्मणोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ष (wrong syllable)