कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आकाङ्क्षा

ākāṅkṣāस्त्री · fem.

In 3 kośas: 3 synonym verses, 3 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.138 · p. 432
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.479 · p. 33
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.480 · p. 34
ईहा तृट् तर्ष आकाङ्क्षा कान्तिरुग्रुचयोऽपि च ।दोहदञ्चाभिलासः स्यादभिलाषश्च कीर्तितः ।इच्छा सुमहती या स्यात् सा भवेत् लालसा द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.

आकाङ्क्षा as a meaning in nānārtha verses

  • कोषकल्पतरु आकलनआकलनं तु निबन्धे परिसंख्याकाङ्क्षयोर्ज्ञाने । सम्मूर्च्छनं तु मोहे सम्मूर्छायामभिव्याप्तौ ॥ १२ ॥ Koṣakalpataru 6.21.12
  • शब्दरत्नावली तर्कतर्को वितर्काकाङ्क्षोहहेतुशास्त्रेषु दृश्यते ॥ Śabdaratnāvalī 7.1.10
  • शब्दरत्नावली श्रद्धास्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् । श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् । श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु । शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥ Śabdaratnāvalī 7.19.15